________________
२२
रघुवंशे मायया = शम्बरविद्यया "स्यान्माया शाम्बरी" इत्यमरः । तत्र तत्र = इतस्ततः विससर्प = सञ्चचार, क्षुरति = विलिखतीति क्षुर इव प्रातीति क्षुरप्रः =बाणभेदः । क्षुरप्रैः =बाणविशेषैः शकलीकृतः = खण्डशः कृतः इति क्षुरप्रशकलीकृतस्तं तथोक्तं, तीक्ष्णबाणैः खण्डं खण्डं कृतमित्यर्थः तं = सुबाहुं । कृतमनेनेति कृती = कुशलः श्रीरामचन्द्रः "कृती कुशलः” इत्यमरः । आश्रमात् = तपोवनात् बहिः = बाह्यम् पत्रिणां = पक्षिणां व्यभजत् = व्यभाक्षीत् , खण्डं खण्डं विभज्य पक्षिश्यः दत्तवानित्यर्थः। न शकलः अशकलः। अशकलः शकलः संपद्यमानः कृतः शकलीकृतः।
समासः-क्षुरप्रैः शकलीकृतः क्षुरप्रशकलीकृतस्तं क्षुरप्रशकलीकृतम् ।
हिन्दी-और सुबाहु नामका दूसरा राक्षस, जो अपनी माया ( जादुगरी ) से इधर उधर फिर रहा था, उछल कूद मचा रहा था, छूरे के समान तेज बाणों से टुकड़े-टुकड़े करके उस राक्षस को "युद्ध करने में" प्रवीण राम ने ऋषि आश्रम के बाहर पक्षियों में बाँट दिया। अर्थात् बाण लगते ही वह टुकड़े-टुकड़े होकर आश्रम से दूर जा गिरा, और उसे तुरन्त पक्षी खा गये ॥ २९॥
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः ॥ ३० ॥ इत्यपास्तमखविघ्नयोस्तयो राघवयोः। संयुगे रणे साधुः सांयुगीनस्तम्। 'प्रतिजनादिभ्यः खञ्' इति खञ्प्रत्ययः । 'सांयुगीनो रणे साधुः' इत्यमरः । विक्रममभिनन्द्य । ऋत्विजो याशिकाः । वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः। ऋतुक्रिया यथाक्रमं निरवर्तयन्निष्पादितवन्तः ॥
अन्वयः-इति अपास्तमखविघ्नयोः तयोः सांयुगीनं विक्रमम् अभिनन्द्य, ऋत्विजः वाग्यतस्य कुलपतेः क्रियाः यथाक्रमं निरवर्तयन् ।
व्याख्या-इति = पूर्वोक्तप्रकारेण अपास्तः = दूरीकृतः मखस्य = यज्ञस्य विघ्नः = प्रत्यूहः याभ्यां तौ अपास्तमखविघ्नौ, तयोः अपास्तमखविघ्नयोः तयोः =रामलक्ष्मणयोः संयुगे युद्ध साधुः सांयुगीनस्तं सांयुगीनम् । “सांयुगीनो रणे साधुः” इत्यमरः । विक्रम = पराक्रमम् अभिनन्ध =संस्तुत्य, ऋत्विजः = याजकाः वाचि यतः वाग्यतस्तस्य वाग्यतस्य = वाचंयमस्य कुलस्य = मुनिगणस्य पतिः कुलपतिस्तस्य कुलपतेः = विश्वामित्रस्य क्रियाः = यज्ञक्रियाः यथाक्रम = क्रममनतिक्रम्य निरवर्तयन् = सम्पादितवन्तः ।
समासः-अपास्तः मखरय विघ्नः याभ्यां तौ अपास्तमखविघ्नौ। तयोः, अपास्तमखविघ्नयोः । वाचि यतः, वाग्यतरतस्य वाग्यतस्य । कुलस्य पतिस्तस्य कुलपतेः । क्रममनतिक्रम्य यथाक्रमम् ।
हिन्दी-इस प्रकार यज्ञ के विघ्न को दूर ( समाप्त ) करने वाले उन दोनों भाई रामलक्ष्मण के युद्ध में प्रदर्शित अपूर्व पराक्रम की प्रशंसा करके यज्ञ करने वाले वैदिकों ने, मौन धारण किये कुलपति विश्वामित्रजी की सारी यज्ञ क्रियाओं को विधिपूर्वक सम्पन्न कर दिया ॥ ३०॥