________________
एकादशः सर्गः
२१
दूसरे राक्षसों पर नहीं छोड़े। क्योंकि बड़े-बड़े भयंकर साँपों के ऊपर आक्रमण करने वाला गरुड़ क्या कभी निर्विष दुमुहे सांपों पर, या जल के सांपों पर आक्रमण करता है । अर्थात् कभी नहीं करता है ॥ २७ ॥
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥ २८ ॥ अस्त्रकोविदोऽस्त्रशः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुदेवता यस्य तद्रायव्यमस्त्रं धनुषि संदधे संहितवान् । कर्तरि लिट् । तेनास्त्रेण शैलबद्गुरुमपि ताडकासुतं मारोचम् । पाण्डुपत्रमिव । परिणतपर्णमिवेत्यर्थः । अपातयत्पातितवान् ।।
अन्वयः-अस्त्रकोविदः सः उग्रजवं वायुदैवतम् अस्त्रं धनुषि संदवे, तेन शैलगुरुम् अपि ताडकासुतं पाण्डुपत्रम् इव अपातयत् ।
व्याख्या-कौति, कवते वा धर्मादि, इति कोविदः । कोः = वेदस्य विदः =ज्ञाता, कोविदः। अथवा कवि = वेदे विदा = ज्ञानमस्येति कोविदः। अस्त्रेषु = शस्त्रेषु कोविदः = पण्डितः, इति अस्त्रकोविदः । सः =रामः उग्रः = उत्कटः जवः = रयः यस्य तत् , उग्रजवम् = प्रबलवेगम् । वायुः देवता अम्य तत् वायुदैवतं = वायव्यम् अस्त्रम् =आयुधं, धनुषि = चापे संदधे = संहितवान् , आरोपयामास । तेन = अस्त्रेण, शैलबत् = पर्वत इत्र गुरुः = दुर्भरस्तं शैलगुरुम् अपि ताडकायाः सुतः = पुत्रस्तं ताडकासुतम् = मारीचम् पाण्डु = परिणतं च तत् पत्रं = पर्णमिति तत् , पाण्डुपत्रम् , परिपक्वपर्णमित्यर्थः। इव = यथा अपातयत् = पातयामास ।
समासः-अस्त्रेषु कोविदः, अस्त्रकोविदः । उग्रः जबो यस्य तत् तथोक्तम् , तत् । शैलवत् गुरुस्तं शैलगुरुम् । ताडकायाः सुतः, ताडकासुतस्तं ताडकासुतम् । पाण्डु च तत् पत्रमिति तत् पाण्डुपत्रम् ।
हिन्दी--अस्त्रशस्त्रों के पण्डित रामने प्रबल वेग वाले वायव्य ( वायुदेवतासंबन्धी ) ( वायु के समान वेगवाले ) बाण को धनुष पर चढ़ा लिया। और उसी बाण से, पर्वत के समान भारी ताड़का के पुत्र मारीच को मारकर सूखे पत्ते की तरह गिरा दिया ॥ २८ ॥
यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यमजदाश्रमावहिः ॥ २९ ॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प सञ्चचार । क्षुरप्रैः शकलीकृतं तं सुबाहुं कृती कुशलो रामः । 'कृती च कुशलः समौ' इत्यमरः। आश्रमाहिः पत्रिणां पक्षिणाम् । 'पत्रिणौ शरपक्षिणी' इत्यमरः । व्यभजत् । विभज्य दत्तवानित्यर्थः॥
अन्वयः-सुबाहुः इति यः अपरः राक्षसः तत्र तत्र मायया विसर्ग क्षुरप्रशकलीकृतं तं कृती आश्रमात् बहिः पत्रिणां व्यभजत् ।
व्याख्या-सुष्ठ दीवौं बाहू यस्य स सुबाहुः, इति = सुबाहुनामा यः = प्रसि द्वः अपरः = द्वितीयसेनापतिः राक्षसः = रक्षः। विश्वं माति यस्यां सा माया, मां यातीति वा माया तया