________________
१५
एकादशः सर्गः अन्वयः-सा निशाचरी दुःसहेन राममन्मथशरेण हृदये ताडिता, गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम ।
व्याख्या-सा नितरां श्यन्ति = तनू कुर्वन्ति व्यापारान् , इति निशाः । निशासु = रात्रिषु चरति, इति निशाचरी = राक्षसी ताडका, अभिसारिका च, अभिसारिकापि रात्रौ अभिसाराय गच्छतीति प्रसिद्धमेव । दुःखेन सह्यते, इति दुःसहस्तेन दुःसहेन = सोढुमशक्येन रामः एव मन्मथः = कामः, सौन्दयेणेत्यर्थः। राममन्मथस्य शरः = बाणस्तेन । अन्यत्र रामः = अभिरामः यो मन्मथस्तस्य शरेण = कुसुमबाणेन, हृदये, वक्षस्थले, अन्यत्र मनसि च ताडिता = विद्धा । गन्धोऽस्यास्तीति गन्धवत् = दुर्गन्धि यत् रुधिरं = रक्तम् , एव चन्दनं =रक्तचन्दनं तेन उक्षिता = लिप्ता । अभिसारिकापक्षे तु-रुधिरं = कुंकुमं च चन्दनं चेति रुधिरचन्दने । गन्धवती =सुगन्धिनी च ते रुधिरचन्दने इति, "रुधिरोऽङ्गारके पुंसि क्लीबं तु कुंकुमासृजोः" इति मेदिनी । जीवितानां जोवनानाम् ईशः = स्वामी तस्य = यमस्य वसतिः = स्थानं तां जीवितेशवसतिं = यमलोकम् । अभिसारिकापक्षे-जीवितेशस्य = प्राणेश्वरस्य वसति = गृहं जगाम = गता, ताडका मृत्वा यमलोकं गता। नायिका च प्राणेश्वरसमीपं प्राप्तेत्यर्थः।
समासः-राम एव मन्मथः राममन्मथस्तस्य शरस्तेन राममन्मथशरेण । रामश्चासौ मन्मथस्तस्य शरस्तेनेति द्वितीयपक्षे। गन्धवत् यत् रुधिरं, गन्धवद्रुधिरं, तदेव चन्दनं तेन उक्षिता इति गन्धवद्रुधिरचन्दनोक्षिता। पक्षे-रुधिरञ्च चन्दनं चेति रुधिरचन्दने । गन्धवती ये रुधिरचन्दने, गन्धवद्रुधिरचन्दने, ताभ्यामुक्षिता, तथोक्ता। जीवितेशस्य वसतिस्तां जीवितेशवसतिम् ।
हिन्दी-असह्य कठोर राम के बाण से छाती में बिन्धने से मरी हुई राक्षसी, दुर्गन्ध भरे खून से सनी ( भींगी ) हुई इस प्रकार यमलोक को चली गई, जैसे अभिराम काम के पुष्पबाण से घायल हुई अभिसारिका अपने प्राणप्रिय प्राणेश्वर के पास जा रही हो ॥२०॥
नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥ २१ ॥ ___ अथानन्तरं ताडकान्तको रामः। अवदानं पराक्रमः। 'पराक्रमोऽवदानं स्यात्' इति भागुरिः। तेन तोषितान्मुनेः नैर्ऋतान्राक्षसान्हन्तीति नैर्ऋतघ्नम् । 'अमनुष्यकर्तृके च' इति ठक् । मन्त्रवन्मत्रयुक्तमस्त्रम् । सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव । प्रापत्प्राप्तवान् ॥
अन्वयः-अथ ताडकान्तकः अवदानतोषितात् मुनेः नैर्ऋतघ्नं मंत्रवत् अस्त्रम् सूर्यकान्तः भास्करात् इन्धननिपाति ज्योतिः इव प्रापत् ।
व्याख्या-अथ = ताडकावधानन्तरम् ताडकायाः अन्तकः = विनाशकः इति ताडकान्तकः = रामः अवदानेन = पराक्रमेण, प्रशस्तकर्मणा =तोषितस्तस्मात् अवदानतोषितात् = प्रशस्तपराक्रमसंतुष्टात् । मुनेः = विश्वामित्रात् निर्गता ऋतेः = शुभात् , निर्ऋतिः । निर्ऋतेः