________________
रघुवंशे
बाणमिनहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १९ ॥ बाणभिन्नहृदया निपेतुषी निपतिता सती। 'क्वसुश्च' इति क्वसुप्रत्ययः। 'उगितश्च' इति ङीष् । सा केवलामेकाम् । 'निर्णाते केवलमिति त्रिलिङ्गं त्वेककृत्रनयोः' इत्यमरः । स्वकाननभुवं न व्यकम्पयत् । किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत् । ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥
अन्वयः-बाणभिन्नहृदया निपेतुषी सती सा, केवलां स्वकाननभुवं न व्यकम्पयत् । “किन्तु" विष्टपत्रयपराजयस्थिरां रावणश्रियम् अपि व्यकम्पयत् ।
व्याख्या-बाणेन = शरेण भिन्नं = विदीर्ण हृदयं = वक्षस्थलं यस्याः सा बाणभिन्नहृदया। निपेतुषी = निपतिता सती, मृत्वा निपतन्ती सतीत्यर्थः । सा=ताडका केवलाम् = एकाम् । कानयति =दीपयति स्मरादि तत् काननम् । स्वस्य = ताडकायाः काननं = वनं तस्य भूः =भूमिस्तां स्वकाननभुवं न व्यकम्पयत् =न कम्पयामास, चालयामासेत्यत्यर्थः । किन्तु विशन्त्यस्मिन् सुकृतिनः, तत् विष्टपं । विष्टपानां = लोकानां त्रयमिति विष्टपत्रयं, तस्य पराजयः = पराभवः, रणे भंग इत्यर्थः तेन स्थिरा = दृढा तां विष्टपत्रयपराजयस्थिराम् । “लोको विष्टपं भुवनं जगत्" "रणे भंगः पराजयः" इति चामरः । रावणस्य = दशाननस्य श्रीः राज्यलक्ष्मीस्तां रावणश्रियमपि व्यकम्पयत् = कम्पितवती । ताडकावधं श्रुत्वा रावणोऽपि भयाक्रान्तो बभूवेति भावः ।
समासः-बाणेन भिन्नं हृदयं यस्याः सा बाणभिन्नहृदया। स्वस्य काननं तस्य भूस्तां स्वकाननभुवम् । विष्टपानां त्रयं विष्टपत्रयं, तस्य पराजयस्तेन स्थिरा, तां विष्टपत्रयपराजयस्थिराम् । रावणस्य श्रीस्तां रावणश्रियम् ।।
हिन्दी-"राम के" बाण से टुकड़े-टुकड़े हुवे हृदय (छाती) वाली, "अतएव” गिरती हुई ताड़का ने, अपने जंगल ( ताड़कावन ) की जमीन को ही नहीं हिला दिया था, अपितु तीनों लोकों को जीतने से जमी हुई ( अटल हुई ) रावण की राज्यलक्ष्मी को भी हिला दिया। अर्थात् ताड़का के मरने से रावण भी भयभीत हो उठा था ॥ १९ ॥ अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २० ॥ सा निशासु चरतीति निशाचरी राक्षसी । अभिसारिका च । दुःसहेन सोढुमशक्येन राम एव मन्मथः। अन्यत्र रामोऽभिरामो मन्मथः। तस्य शरेण हृदय उरसि मनसि च । 'हृदयं मनउरसोः' इति विश्वः । ताडिता विद्धाङ्गी गन्धवदुर्गन्धि यद्रुधिरमसृक्तदेव चन्दनं तेनोक्षिता लिप्ता। अपरत्र गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कुमचन्दने ताभ्यामुक्षिता । 'रुधिरं कुङ्कुमासृजोः' इत्युभयत्रापि विश्वः । जीवितेशस्यान्तकस्य प्राणेश्वरस्य च वसतिं जगाम ।।