________________
- रघुवंशे अभिभूतः। अत्र वात्यापि तीव्रवेगधुतमार्गवृक्षा, प्रेतचीवरवाः, स्वनोग्रा भवतीति बोध्यम् । शब्दार्थस्तु पक्षद्वयेऽपि समान एवेति ॥
समासः-तीव्रश्चासौ वेगस्तेन धुताः मार्गस्य वृक्षा यया सा, तया, तीव्रवेगधुतमार्गवृक्षया। प्रेतानां चीवराणि वस्ते या प्रेतचीवरवाः, तया प्रेतचीवरवसा। स्वनेन उग्रा, तया। भरतस्य अग्रजः, भरताग्रजः । पितृणां काननं तत्र उत्थितया पितृकाननोत्थया।
हिन्दी-प्रबल वेग से मार्ग के वृक्षों को कंपाती हुई, मुर्दो के फटे पुराने कफन को पहने हुई, “और अपनी" धोर सिंहगर्जना करती हुई ताड़का राक्षसी ने, श्मशान से उठे ववण्डर के समान भरतजी के बड़े भाई राम को अभिभूत कर दिया। अर्थात् मुर्दो के अरण्य ( श्मशान ) से उठी आँधी के भयंकर रूप वाली ताड़का ने श्रीराम को आकर घेर ( लिया ) ॥ १६ ॥
उद्यतैकभुजयष्टिमायती श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य बनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥ उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम् । आयतीमायान्तीम् । इणो धातोः शतरि 'उगितश्च' इति ङीप् । श्रोणिलम्बिनी पुरुषाणामन्त्राण्येव मेखला यस्यारताम् । इति विशेषणद्वयेनाप्याततायित्वं सूचितम् । अत एव तां विलोक्य राघवो वनितावधे स्त्रीवनिमित्ते घृणां जुगुप्सां करुणां वा । 'जुगुप्साकरणे घृणे' इत्यमरः। पत्रिणेषुणा सह । 'पत्री रोप इषयोः' इत्यमरः। मुमोच मुक्तवान् । आततायिवधे मनु:-'आततायिनमायान्तं हन्यादेवाविचारयन् । जिवांसन्तं जिघांसोयान्न तेन ब्रह्महा भवेत् ।। नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥' इति ।।
अन्वयः-उद्यतैकभुजयष्टिम् आयती श्रोणिलम्बिपुरुषान्त्रमेखलाम् ता विलोक्य राघवः वनितावधे घृणां पत्रिणा सह मुमोच । ___ व्याख्या-उद्यता = उन्नमिता, ऊर्च कृता, एकः भुजः = बाहुः एव यष्टिः यष्टिका = लगुडः यस्याः सा ताम् , उद्यतैकभुजयष्टिम् । आयतीम् = आगच्छन्तीम् । पुषाणां =मनुष्याणाम् अन्त्राणि = पुरातन्ति, इति पुरुषान्त्राणि । “अन्त्रं पुरीतत्" इत्यमरः । श्रोणौ = कट्यां लम्बते, इति श्रोणिलम्बिनी । श्रोणिलम्बिनी = कटिप्रदेशावासनी पुरुषान्त्राणि एव मेखला = रशना यस्याः सा तां श्रोणिलम्बिपुरुषान्त्रमेखलाम् । “मेखला काञ्ची सप्तकी रशना" इत्यमरः। एतेन विशेषणद्वयेन ताड़कायाः आततायित्वं प्रकटितम् । अत एव तां = ताडकां विलोक्य = दृष्ट्वा राघवः रामचन्द्रः वनितायाः = स्त्रियः वधः =मारणं, तस्मिन् वनितावधे घृणां जुगुप्सां = दयां वा पत्रमस्यास्तीति पत्री तेन पत्रिणा = बाणेन सह मुमोच = तत्याज। “जुगुप्सा करुणे घृणे", "पत्त्रिणौ शरपक्षिणी” इति चामरः। ताडकायाः स्त्रीत्वेऽपि आततायित्वेन तस्याः वधे न दोषः, "नाततायिवधे दोषो हन्तुर्भवति कश्चन" मनुवचनादिति भावः ॥ __ समासः-उद्यता एकः भुजः एव यष्टिः यस्याः सा ताम् उद्यतैकभुजयष्टिम् । श्रोणौ लम्बिनी पुरुषाणाम् अंत्राणि एव मेखला यस्याः सा तां श्रोणिलम्बिपुरुषान्त्रमेखलाम् । वनितायाः वधः, तस्मिन् वनितावधे ।