________________
एकादशः सर्गः अन्वयः-अथ तयोः ज्यानिनादं गृह्णती बहुलक्षपाछविः चलकपालकुण्डला ताडका निबिडा बलाकिनी कालिका इव प्रादुरसि । ___ व्याख्या-अथ = अनन्तरम् तयोः = कुमारयोः ज्यायाः = धनुगुणस्य निनादः = ध्वनिस्तं गृह्णती = जानती शृण्वती बहुलस्य = कृष्णपक्षस्य क्षपा=रात्रिः तस्याः छविः = कान्तिरिव छविः यस्या सा बहुलक्षपाछविः । बहून् लातीति “बहुलः कृष्णपक्षे चे"ति कोषः । कं पालयतीति कपालः = शिरोस्थिखण्डः । कुण्डं = कुण्डाकारं लातीति कुण्डलम् । चले = चञ्चले कपाले = कपरे एव कुण्डले = कर्णभूषणे यस्याः सा चलकपालकुण्डला । “स्यात् कर्परः कपालोऽस्त्री" "कुण्डलं कर्णवेष्टनम्" इति चामरः । ताडका = एतन्नामराक्षसी निबिडा = सान्द्रा घना, इत्यर्थः बलाका = बकपंक्तिः अस्त्यस्याः सा बलाकिनी = बलाकावती, कालो वर्णोऽस्त्यस्याः सा कालिका = मेघावलिः इव = यथा प्रादुरास = प्रादुर्बभूव । “मेघजाले च कालिका" इत्यमरः।
समासः-ज्यायाः निनादस्तम् । बहुलस्य क्षपा, तस्याः छविरिव छविः यस्याः सा । चले कपाले, एव कुण्डले यस्याः सा ।
हिन्दी-इसके पश्चात् धनुष की डोरी की टंकर को सुनते ही, कृष्ण पक्ष की ( अमावस्या ) रात्रि के समान घोर काली, और हिलते हुवे नरमुण्ड के कुण्डल “कानों में" पहने हुई, ताड़का रामलक्ष्मण के सामने ऐसी प्रगट हुई मानों बगुलों, सारसों की पंक्तिवाली घनघोर काली घटा ( मेवपंक्ति ) हो ॥ १५ ॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ १६ ॥ तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया । प्रेतचीवराणि वस्त इति प्रेतचीवरवाः । तया प्रेतचीवरवसा । वसतेराच्छादनार्थात्क्विप् । स्वनेन सिंहनादेनोग्रया तया ताडकया। पितृकानने श्मशान उत्थोत्पन्ना । 'आतश्चोपसगें' इत्युत्पूर्वात्तिष्ठतेः कर्तरि क्तप्रत्ययः । तया वात्ययेव वातसमूहेनेव । 'पाशादिभ्यो यः' इति यः । भरताग्रजो रामोऽभ्यभाव्यभिभूतः। कर्मणि लुङ् । तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ।।
अन्वयः-तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया तया पितृकाननोत्थया वात्यया इव भरताग्रजः अभ्यभावि।
व्याख्या-तीव्रः = अतिशयः यः वेगः = जवः, तेन धुताः = कम्पिताः मार्गस्य = अध्वनः वृक्षाः = पादपाः यया सा तया, तथोक्तया, ''वेगः प्रवाहजवयोरपि” इत्यमरः । प्रेतानां = मृतानां चीवराणि = जीर्णशीर्णवस्त्राणि वस्ते = आच्छादयति, ( परिदधाति ) इति प्रेतचीवरवाः, तया प्रेतचीवरवसा, स्वनेन = सिंहनादेन उग्रा = उत्कटा=रौद्रा, इति यावत् तया स्वनेनोग्रया, तया = ताडकया, पितृणां काननं = वनमिति पितृकाननं = श्मशानं, शवदाहस्थानमित्यर्थः, तस्मिन् उत्था = उत्पन्ना, तया पितृकाननोत्थया, वातानां = वायूनां समूहः वात्या तया वात्यया इव = यथा भरतस्य अग्रे पूर्व जातः = उत्पन्नः, भरताग्रजः =रामः अभ्यभावि =