________________
रघुवंशे
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ५॥ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावीपत्सिक्तचूडौ । 'शिखा चूडा शिखण्डः स्यात्' इत्यमरः । 'शेषाद्विभाषा' इति कप्रत्ययः । धन्विनौ तावुभौ । पौरदृष्टिभिः कृतानि मार्गतोरणानि संपाद्यानि कुवलयानि ययोस्तौ तथोक्तौ । संघशो निरीक्ष्यमाणावित्यर्थः । तमृषिमन्वगच्छताम् ॥
अन्वयः-पितुः नयनजेन वारिणा किंचित् उक्षितशिखण्डको धन्विनौ तौ उभौ पौरदृष्टिकृतमार्गतोरणौ तम् ऋषिम् अन्वगच्छताम् ।।
व्याख्या-पितुः = दशरथस्य नयनाभ्यां = नेत्राभ्यां जातमिति, तेन नयनजेन वारिणा = अश्रुजलेन किंचित् = ईषत् उक्षितः सिक्तः शिखण्डः = शिखा ययोस्तौ, तथोक्तौ । “शिखा चूडा शिखण्डः स्यादि"त्यमरः, धन्विनौ = धनुष्मन्तौ तौ = रामलक्ष्मणौ उभौ =द्वौ पौराणां = नागरिकाणां दृष्टयः = नेत्राणि, पौरदृष्टयस्ताभिः कृतानि मार्गस्य = पथः तोरणानि = शोभाद्वाराणि ( सम्पाद्यानि नीलकमलानीत्यर्थः) ययोस्तौ पौरदृष्टिकृतमार्गतोरणौ। तम् = कौशिकषिम् अन्वगच्छताम् = अन्वव्रजताम् । सर्वैः आदरेण निरीक्ष्यमाणौ कौशिकमनुजग्मतुरित्यर्थः ।
समासः—किंचित् उक्षितः शिखण्डः ययोस्तौ किंचिदक्षितशिखण्डको “अत्र समासान्तः कप्रत्ययः” । पौराणां दृष्टयस्ताभिः कृतानि मार्गस्य तोरणानि ययोस्तौ तथोक्तौ ।
हिन्दी-पिता के नेत्रों से गिरे जल ( आँसू ) से कुछ भींगी शिखा वाले धनुषधारी वे दोनों राजकुमार विश्वामित्र ऋषि के पीछे चले जा रहे थे। उस समय ऐसा लग रहा था, मानो नागरिक जनों के नेत्र कमलों की बन्दनवारों से मार्ग सजाये गये हो। अर्थात् सब के सब साथ एकटक देखने से ऐसा लग रहा था मानो नील कमलों का बन्दनवार सजाया गया
काका ||
लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ६ ॥ ऋषिलक्ष्मणानुचरमेव लक्ष्मणमात्रानुचरं तं राघवं नेतुमैच्छदिति हेतोरसौ नृप आशिष प्रयुयुजे प्रयुक्तवान् । वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान् । हि यस्मात्साशीरेव तयोः कुमारयो रक्षणविधौ क्षमा शक्ता ॥
अन्वयः-ऋषिः लक्ष्मणानुचरम् एव राववं नेतुम् ऐच्छत् , इति असौ नृपः आशिषं प्रयुयुजे, वहिनीं न प्रयुयुजे, हि सा तयोः रक्षणविधौ क्षमा। ___ व्याख्या-ऋषति =जानातीति ऋषिः = विश्वामित्रः अनुचरतीति अनुचरः, लक्ष्मीरस्यास्तीति लक्ष्मणः =सौमित्रिः अनुचरः =अनुगामी यस्य स तं राघवं =रामम् एव केवलं नेतुं =प्राप्तुम् ऐच्छत् = इच्छितवान् इति = हेतोः, असौ नृपः = राजा दशरथः आशिष = शुभाशंसनं प्रयुयुजे = प्रयुक्तवान् । वाहाः =अश्वाः सन्ति, अस्यां सा वाहिनी तां वाहिनीं = सेनां न प्रयुयुजे =न प्रेषितवान् । रामलक्ष्मणाभ्यामाशीर्वचनमात्रं दत्तवान् राजा सेनान्तु न प्रेषितवान् तद्रक्षणाय, हि = यतः सा=आशीः तयोः =रामलक्ष्मणयोः रक्षणस्य = रक्षायाः विधिः = विधानं तस्मिन् रक्षणविधौ, तयोः रक्षाकरणे, इत्यर्थः। क्षमा = योग्या =समर्था ।