________________
m
एकादशः सर्गः व्याख्या-पृथिव्याः ईश्वरः पार्थिवः =राजा दशरथः तयोः =रामलक्ष्मणयोः निर्गमाय = निष्क्रमणाय, अयोध्यातो बहिर्गमनायेत्यर्थः । पुरस्य = नगरस्य मार्गः = पन्थाः तस्य संस्क्रिया = संमार्जनादिका ताम् तथोक्ताम् , राजमार्ग धूलिसंकरसंमार्जनम् सुरभिजलसेचनं पुष्पमालादिभिरलंकरणमेवमादिसंस्करणमित्यर्थः । यावत् आदिशति = आज्ञापयति तावत् मरुत् = वायुः सखा = मित्रं येषां ते तैः। पुष्पैः सहितानि सपुष्पाणि = सकुसुमानि-जलानि वर्षन्ति तच्छीलास्तैः । धनैः = मेघैः सा = मार्गसंमार्जनादिसंस्क्रिया। आशु =शीघ्रं विदधे = कृता। पवनेन धूलिसंकरसंमार्जनं कृतम् । मेधैस्तु पुष्पसहितजलवर्षणं कृतमिति गम्यते। अनेन देवानां कार्यकरणे प्रवृत्तयोः देवनामानुकूल्यं दर्शितमिति भावः। ___ समासः-पुरस्य मार्गस्तस्य संस्क्रिया ताम् । मरुत् सखा येषां ते तैः । पुष्पैः सहितानि, सपुष्पाणि । सपुष्पाणि जलानि वर्षन्ति तच्छीलास्तैः तथोक्तैः ।
हिन्दी-जब तक राजा दशरथ ने राम लक्ष्मण के बाहर जाने के लिये, नगर को सड़क की सफाई तथा पानी छिड़काव की आज्ञा दी, तब तक ( इतने ही में ) पवन के साथ मेघों ने जल तथा पुष्प वृष्टि कर दी। अर्थात् वायु ने धूल गरदा उड़ाकर फूल वर्षाये और मेघों ने पानी वर्षा कर छिड़काव कर दिया ॥ ३ ॥
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोनिपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ ४ ॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोनिपेततुः । प्रणतावित्यर्थः । भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः । अत एव नम्रयोः प्रणतयोः । 'नमिकम्पि-' इति रप्रत्ययः । तयोरुपरि निपेतुः पतिताः ॥
अन्वयः-निदेशकरणोद्यतौ धन्विनौ तौ पितुः चरणयोः निपेततुः, भूपतेः अपि बाष्पविन्दवः प्रवत्स्यतोः “अत एव” नम्रयोः तयोः उपरि निपेतुः।
व्याख्या-निदेशस्य = आज्ञायाः करणं = पालनं तत्र उद्यतौ = उद्युक्तौ तौ । धनुषि = चापे स्तः ययोस्तौ धन्विनौ = चापधारिणौ तौ रामलक्ष्मणौ पितुः= जनकस्य दशरथस्य चरणयोः पादयोः निपेततुः= निपतितौ प्रणतावित्यर्थः । भूपतेः =राज्ञो दशरथस्यापि बाष्पाणाम् = अश्रूणां बिन्दवः =कणाः, इति बाष्पबिन्दवः प्रवत्स्यतोः =प्रवासं करिष्यतोः। प्रवत्स्यतः इति प्रवत्स्यन्तौ तयोः । अत एव नम्रयोः = विनीतयोः प्रणतयोरित्यर्थः । तयोः = कुमारयोः उपरि = ऊर्ध्वम् निपेतुः = पतिताः ।
समासः-निदेशस्य करणे उद्यतौ तौ। भुवः पतिस्तस्य भूपतेः । बाष्पाणां बिन्दवः, बाष्पबिन्दवः।
हिन्दी-पिता की आज्ञा पालन करने को प्रस्तुत ( तैयार ) धनुर्धारी राम लक्ष्मण दोनों अपने पिता के चरणों में प्रणाम करने को झुके ही थे “कि" महाराज दशरथ की "आँखों से" भी यात्रा करने को तैयार अतएव नम्र हुए उन दोनों के ऊपर आँसू टपक पड़े ॥४॥