________________
३८६
रघुवंश महाकाव्ये
समासः - निर्गतः दोषो यस्मात् तत् निर्दोषम् । श्राविष्कृताः गुणाः यस्मिन् तत् श्राविष्कृतगृरणम् । पुरुषेषु उत्तमस्तं पुरुषोत्तमम् ।
हिन्दी - “चारों भाइयों के अवतार लेने पर " सारा संसार दुर्भिक्ष रोग आदि दोषों से शून्य, तथा आरोग्य सुभिक्ष आदि गुण वाला हो गया । " उस समय ऐसा लगता था कि" मानों पृथिवो पर श्राये पुरुषोत्तम विष्णु के पीछे पीछे स्वर्ग भी पृथिवी पर आ गया हो । अर्थात् जगत् भी स्वर्गसमान हो गया || ७२ ||
तस्योदये चतुर्मूर्तेः पौलस्त्यच कितेश्वराः । विरजस्कैर्नभवद्धिर्दिश उच्छसिता इव ॥ ७३ ॥
-1
संजी० - तस्येति चतुर्मुर्त रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति । पौलस्त्याद्रावरणाच्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्केर पधूलिभिर्नभस्वद्भिर्वायुभिः । मिषेण । उच्छ्वसिता इव इत्युत्प्रेक्षा । श्वसेः कर्तरि क्तः । स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः । चतुर्दिगीशरक्षणं मूर्तिचतुष्टयप्रयोजनमिति भावः ॥ ७३||
अन्वयः -- चतुर्मूर्तेः तस्य उदये सति पौलस्त्यचकितेश्वराः दिशः विरजस्कैः नभस्वद्भिः उच्छ्वसिताः इव ( जाताः इति शेषः ) ।
s
व्याख्या--चतस्रः मूर्तयः = स्वरूपाणि यस्य स तस्य चतुर्मूर्तेः - रामादिरूपेण चतुःस्वरूपस्य तस्य=विष्णोः उदये = प्राविर्भावे सति, पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यः । पौलस्त्यात् रावणात् चकिताः भीताः ईश्वराः = इन्द्रादयः रक्षकाः यासां ताः पौलस्त्य चकितेश्वराः दिशन्त्यवकाशमिति दिशः चतस्रः काष्ठाः विगतानि रजांसि धूलयः येषां ते तैः विरजस्क:- शान्तधूलिभिः नभः अस्ति श्राश्रयत्वेन येषां ते नभस्वन्तस्तैः नभस्वद्भिः पवनैः "व्याजेन" उच्छ्वसिताः = उद्गतप्राणाः इव - यथा जाता इति शेषः ।
समासः - चतस्रः मूर्तयो यस्य स तस्य चतुर्मूर्तेः । पौलस्त्यात् चकिताः ईश्वराः यासां ताः पौलस्त्य चकितेश्वराः । विगतानि रजांसि येषां ते तैः विरजस्कैः 1 हिन्दी - राम भरत लक्ष्मण शत्रुघ्न, इन चार स्वरूप वाले विष्णु भगवान् के अविर्भाव (अवतार) होने पर रावण से दिशाएँ मानों धूली से रहित निर्मल
डरे हुए
इन्द्रादि नाथ वाली चारों
वायु के
चलने
बहाने जी उठीं । स्वाँस
के