________________
३८५
२५
दशमः सर्ग: अन्वयः-सुमित्रा लक्ष्मणशत्रुघ्नौ यमौ सुतौ सम्यगाराधिता विद्या प्रबोधविनयौ इव सुषुवे । ___ व्याख्या-सुमित्रा-दशरथराजस्य कनिष्ठा भार्या, लक्ष्मीरस्यास्तीति लक्ष्मणः शत्रुन् हन्ति-नाशयतीति शत्रुघ्नः । लक्ष्मणश्च शत्रुघ्नश्चेति लक्ष्मणशत्रुघ्नौ यमौ= युग्मजातौ सुतौ-पुत्रौ सम्यगाराधिता-सुष्ठ प्रकारेण, अभ्यस्ता विद्यतेऽसौ विद्या = ज्ञान-शास्त्रं तत्त्वज्ञानरूपा च प्रबुध्यते इति प्रबोध: तत्त्वज्ञानम् विनया इन्द्रि. यजयश्चेति प्रबोधनयौ इव-यथा सुषुवे-जज्ञे-जनयामास ।
समासः-लक्ष्मणश्च शत्रुघ्नश्चेति लक्ष्मणशत्रुघ्नौ । सम्यक् पाराधिता सम्यगाराधिता। प्रबोधश्च विनयश्चेति प्रबोविनयौ, तौ।
हिन्दी-सुमित्रा ने लक्ष्मण और शत्रुघ्न नाम के दो पुत्रों को एक साथ, उसी प्रकार पैदा किया जैसे अच्छी प्रकार से अभ्यास की गई विद्या तत्त्व ( सम्यक्ज्ञान ) और विनय ( नम्रता ) को उत्पन्न करती है ॥७१।।
निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥७२।। संजी-निर्दोषमिति । सर्व जगङ्गलोको निर्दोषं दुर्भिक्षादिदोषरहितम् । प्राविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत् । अत्रोत्प्रेक्षते-गां भुवं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव । स्वर्गो हि गुणवानिर्दोषश्चेत्यागमः । स्वर्गतुल्यमभूदित्यर्थः ।।२।।
अन्वयः-सर्वं जगत् निर्दोपम प्राविष्कृतगुणं च अभवत् , हि गां गतं पुरुषोत्तमं स्वर्गः "अपि' अन्नगात् इव ।
व्याख्या-सर्वम्- समस्तं जगत् लोकः मृत्युलोक इत्यर्थः निर्गतः निष्क्रान्तः दोषः दूषणं यस्मात् तत् निर्दोषम्-रोगदुर्भिक्षादिदोषरहितम् आविष्कृताः= प्रकटिताः गुणाः सुभिक्षारोग्यादयो यस्मिन् तत् माविष्कृतगुणम्, चः समुच्चयार्थकः, अभवत्-प्रभूत् जातमित्यर्थः । अत्रोत्प्रेक्ष्यते-हि-यतः गच्छतीति गा तो गाम्= पृथिवीं गतम् अवतीर्ण पुरुषेषु-नरेषु उत्तमः श्रेष्ठस्तं पुरुषोत्तम-विष्णुं सुष्ठ प्रयते इति स्वर्गः देवलोकः "अपि" अन्वगात् अन्वव्रजत् इव इत्युत्प्रेक्षायाम्, रामे भुवमवतीणे सति सर्व जगत् स्वर्गतुल्यं जातमित्यर्थः। .