________________
दशमः सगः
३४५
मयट' ( पा. ५।४।२१ ) तद्धितार्थ-' (पा. २१११५१ ) इत्यादिना तद्धितार्थ विषये तत्पुरुषसमासः । स लोकः । इत्येवंरूपं सर्वं चतुर्मुखाचतुर्मुखरूपिरणस्त्वत्तः । जातमिति शेषः । 'इदं सर्वमसृजत यदिदं किंच' ( तैत्ति० २१६ ) इति श्रुतेः ।।२२।।
पन्वयः-चतुर्वर्गफलं ज्ञानं चयुगाः कालावस्थाः चतुर्वर्णमयः लोकः "इति" सर्व चतुर्नुखात त्वत्त:, ( जातमिति शेषः )।
व्याख्या-चतुर्णा -धर्मार्थकाममोक्षाणां वर्गः-समूहः इति चतुर्वर्गः, चतुर्वर्गः फलं यस्य तत् चतुर्वर्गफलं-धर्मार्थकाममोक्ष फलकमित्यर्थः ज्ञानम्-धीः । चत्वारि युगानि यासु ताः चतुर्युगाः सत्यद्वापरत्रेताकलिरूपाः, कल्यते = संख्यायते इति कालः । कालस्य-समयस्य अवस्थाः-भेदाः इति कालावस्थाः । चत्वारः चतुःसंख्यकाः वर्णाः ब्राह्मणक्षत्रियादयः प्रकृताः उच्यन्ते यस्मिन् स चतुर्वर्णमयः । लोक्यतेऽसौ लोकः जनः इत्येवंरूपमखिलं ब्रह्माण्डं चत्वारि-चतुःसंख्यकानि मुखानि प्राननानि यस्य स चतुर्मुखः, तस्मात् चतुर्मुखात्-चतुराननात् चतुर्मुखस्वरूपिणः त्वत्तः= भवतः जातमिति शेषः।
समासः-चतुर्णा वर्गः चतुर्वर्गः, चतुर्वर्गः फलं यस्य तत् चतुर्वर्गफलम् । कालस्य अवस्थाः कालावस्थाः । चत्वारि युगानि यासु ताः चतुर्युगाः । चत्वारः वर्णाः प्रकृता उच्यन्ते यस्मिन् सः चतुर्वर्णमयः । चत्वारि मुखानि यस्य स तस्मात् चतुर्मुखात् । ___ हिन्दी-धर्म अर्थ काम मोक्ष रूप फल देने वाला ज्ञान, और सत्य त्रेता द्वापर कलि इन चार युग वाली समय की अवस्था ( समय का विभाग ) तथा ब्राह्मण क्षत्रिय वैश्य शूद्र चार वर्ण का संसार, यह सब चार मुख वाले ब्रह्मारूपो तुमसे ही उत्पन्न हुआ है ॥२२॥
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥२३॥ संजी०–अभ्यासेति । अभ्यासेन निगृहीतं विषयान्तरेभ्यो निवर्तितम् । तेन मनसा योगिनो हृदयाश्रयं हृत्पद्मस्थं ज्योतिर्मयं त्वां विमुक्तये मोक्षार्थं विचिन्वन्त्यन्विष्यन्ति । ध्यायन्तीत्यर्थः ॥२३॥