________________
३४४
रघुवंशमहाकाव्ये अन्वयः--" हे देव !" त्वां समसामोपीतम् , सप्ताणवजललेशयम् , सप्ताचिमुखम् , सप्तलोकैकसंश्रयम, प्राचख्युः ।
व्याख्या-सप्तभिः सप्तसंख्यकैः सामभिः रथन्तरादिभिः उपगीत:- शब्दितः स्तुत इति सप्तसामोपगीतस्तं सप्तसामोपगीतम् रथान्तरादिसामभिः कृतस्तवमित्यर्थः । अर्णासि सन्ति येषु ते अर्णवाः । सप्तानां ऋषिसंख्यकानाम् अर्णवानां= समुद्राणां जलं-- सलिलभिति सप्तावजलं, तस्मिन् शेले स्वपिति, इति सप्तार्णवजलेशयस्तं सप्तार्णवजलेशयं सप्तर गरजलमध्ये शायिनमित्यर्थः, सप्त = सप्तसंख्यकानि अर्चीषि यस्य स सप्तार्चि: अग्निः मुखम् आननं यस्य स सप्तार्चिमुंखस्तं सप्तचिमुखम् लोक्यन्ते इति लोकाः, सप्तानां लोकानां-भुवनानाम् एकः= अद्वितीयः संश्रयः आधार इति सप्तलोकैकसंश्रयस्तं सप्तलोकैकसंश्रयम् आचख्युः= कथयन्ति स्म, महर्षय इति शेषः ।
समासः-सप्त च तानि समानि च तः उपगीतः सप्तसामोपगीतस्तं सप्तसामोपगीतम् । सप्तानाम् अर्णवानां जलमिति सप्तार्णवजलं तस्मिन् शेते इति सप्तार्णवजलेशयस्तं सपार्णवजलेशयम् । सप्त अर्चीषि यस्य स सप्ताचिं, सप्ताचिः मुखं यस्य स सप्ताचिर्मुखस्त सप्ताचिमुखम् । सप्तानां लोकानां समाहारः सप्तलोकं तस्य एकः संश्रयस्तं सप्तलोकैकसंश्रयम् ।
हिन्दी-हे भगवन् ! सातों साम रथन्तर, बृहद्रथन्तर आदि से गान किये गये, तथा सातों समुद्रों के जल में शयन करने वाले, सात-काली, कराली, मनोजवा, सुलोहिता, सुधूम्रवर्णा, स्फुलिंगिनी, विश्वदासा नामक जिह्वा वाले अग्निरूपी मुखवाले तथा सातों लोकों के एकमात्र आधार आपको ही ऋषियों ने बतलाया है।॥२१॥
चतुवर्गफलं ज्ञानं कालावस्थाश्चतुयुगाः।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वे चतुर्मुखात् ॥२२॥ संजी०-चतुरिति । चतुर्णा धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः । 'त्रिवर्गो धर्मकामार्थे श्चतुर्वर्गः समोक्षकः' इत्यमरः । तत्फलकं यज्ज्ञानम् । चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम् । चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः। चातुर्वर्ण्यप्रचुर इत्यर्थः । 'तत्प्रकृतवचने