________________
दशमः सर्गः
३३३ उस गोद पर" लक्ष्मी के कररूपी पल्लव रखे हैं । इन दोनों विशेषणों से भगवान् के चरण अतीव कोमल हैं वे मेखला के कठोर स्पर्श को सहन नहीं कर सकते हैं, यही सूचित किया है ।।८।।
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम् ।।६।। संजी०-प्रबुद्धेति । पुनः कीदृशम् ? प्रबुद्धे विकसिते पुण्डरीके इवाक्षिणो यस्य तम् । दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः । बालातपनिभमंशुकं यस्य तम् । पीताम्बरधरमित्यर्थः । अन्यत्र, बालातपव्याजांशुकमित्यर्थः। 'निभो व्याजसदृक्षयोः' इति विश्वः । प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भा प्रकृष्टोद्योगा योगिनः । तेषां सुखदर्शनम् । अन्यत्र,-प्रारम्भ प्रादौ सुखदर्शनं शारदं शरत्संबन्धिनं दिवसमिव स्थितम् ।।९।।
अन्वयः-प्रबुद्धपुण्डरीकाक्षम् बालातपनिभांशुकम् प्रारम्भसुखदर्शनम्, शारदम्, दिवसम्, इव स्थितम् ।
व्याख्या-प्रबुद्धं विकसितं पुण्डरीक-श्वेतकमलम् इव-यथा अक्षिणी-नेत्रे यस्य स तं प्रबुद्धपुण्डरीकाक्षम् । यद्वा पुण्डरीकं लोकात्मकम् अक्षति व्याप्नोतीति पुण्डरीकाक्षः, तं पुण्डरीकाक्षम् । दिवसपक्षे तु पुण्डरीकमेव अक्षि यस्य तं तथोक्तम् । बालः प्रातःकालिकश्चासौ आतपः-प्रकाशः, इति बालातपस्तेन निभं-तुल्यं सदृशम् अंशुकं वस्त्रं यस्य स तं बालातपनिभांशुकम् पीताम्बरमित्यर्थः । दिवसपक्षे बालातपव्याजांशुकमिति । प्रारम्भरणम् आरम्भः, प्रकृष्टः आरम्भः योगः येषां ते प्रारम्भाः-योगिनस्तेषां सुख-सुखकरं दर्शनम् अवलोकन यस्य स तं प्रारम्भसुखदर्शनम्, दिवसपक्षे तु प्रारम्भे-आदी सुखं दर्शनं यस्य स तं तथोक्तम् । शरदि-शरदृतौ भवः शारदस्तं शारद-शरत्संबन्धिनं दिवसम् इव-यथा स्थितं विष्णुं ददृशुरिति पूर्वेणान्वयः ।
समासः-प्रबुद्धे पुण्डरीके इव अक्षिणी यस्य स तं प्रबुद्धपुण्डरीकाक्षम् । बालश्चासौ प्रातपस्तेन निभम् अंशुकं यस्य स तं बालातपनिभांशुकम् । प्रारम्भाणां सुखं दर्शनं यस्य तं प्रारम्भसुखदर्शनम् ।
हिन्दी-खिले श्वेत कमल के समान नेत्र वाले, तथा प्रातःकालीन पीली.