________________
दशमः सर्गः
३२७
जातस्य मम कौशिक' इति रामायणविरोधात्, नापि राज्याभिषेकात् रामायणविरोधादेवेति ज्ञेयम् ।
समामः-पाकस्य शासनः पाकशासनस्तस्य तेजः इव तेजो यस्य सः तस्य पाकशासनतेजसः । अनूना ऋद्धिः यस्य स तस्य अनूनद्धः ।।
हिन्दी- पृथिवी का पालन करते हुए इन्द्र के समान तेजस्वी अपार सम्पत्ति वाले राजा दशरथ के कुछ कम दस हजार वर्ष बीत गये ।।१।।
न चोपलेभे पूर्वेषामृणनिर्मो क्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥२॥ संती-न चेति । स दशरथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम् । 'एष वा अनृणो यः पुत्री' इति श्रुतेः । पितरणामृणनिर्मुक्तिकारणम् । सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम् । अत्र 'अभयंकर' इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य 'अपे क्लेशतमसोः' (पा. ३।२।५० ) इति डप्रत्ययः । सुताभिधानं सुताख्यं ज्योतिर्नोपलेभे न प्राप च ॥२॥
अन्वयः--सः पूर्वेषाम् ऋणनिर्मोक्षसाधनम् सद्यः शोकतभोपहम् सुताभिधानम् ज्योतिः न च उपलेभे।
व्याख्या-सः- दशरथः, पूर्वेषां पूर्वपुरुषाणां पितृणामित्यर्थः अयंते स्म इति ऋणम्, ऋणात् देयात्-पितृऋणादित्यर्थः निर्मोक्षः-मुक्तिस्तस्य साधनं-कारणमिति ऋणनिर्मोक्षसाधनं सद्यः सपदि शोकः-सन्तापः एव तमः-अन्धकारस्तद् अपहन्ति= नाशयतीति शोकतमोपहम् सुतः पुत्रः इति अभिधानम् नाम यस्य तत् सुताभिधानं ज्योतिः-प्रकाशम् न नहि उपलेभे प्राप । प्रायः षष्टिवर्षसहस्रपर्यन्तं राज्ञो दशरथस्य गृहे पुत्रो न जात इत्यर्थः ।
समासः-ऋणात् निर्मोक्षः, तस्य साधनमिति ऋणनिर्मोक्षसाधनम्, तत् । सुतः अभिधानं यस्य तत् सुताभिधानम्, तत् । शोक एव तमः शोकतमः तत् अपहन्ति, तत् शोकतमोपहम् ।
हिन्दी--"परन्तु" उस राजा ने अपने पूर्वज पितरों के ऋण से मुक्त कराने वाले तथा तुरन्त शोकरूपी अन्धकार को नष्ट करने वाले, पुत्र नामके