________________
नवमः सर्गः
शाप भी अनुग्रह पूर्ण हो है। "क्योंकि" लकड़ी आदि इन्धन से प्रज्वलित अग्नि, जोतने के योग्य भूमि को जलाकर भी निश्चितरूप से बीजों के अंकुरों को पैदा करनेवाली बना देता है । अतः शाप से भी मेरा उपकार ही आपने किया है ।।८०॥ इत्थं गते गतघृणः किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन । एधान्हुताशनवतः स मुनिययाचे पुत्रं परासुमनुगन्तुमनाः सदारः ।।८१॥
संजी०-इत्थमिति । इत्थं गते प्रवृत्ते सति । वसुधाधिपेन राज्ञा। गतघृणो निष्करुणः, हन्तृत्वान्निष्कृप इत्यर्थः । अत एव तव वध्यो वधार्होऽयं जनः । 'अयम्' इति राज्ञो निर्वेदादनारेण स्वात्मनिर्देशः । किं विधत्तामित्यभिहित उक्तः, 'मया किं विधेयम् ?' इति विज्ञापित इत्यर्थः । स मुनिः सदारः सभार्यः परासुं गतासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन् । 'तुं काममनसोरपि' इति मकारलोपः । हुताशनवतः साग्नीनेधान् काष्ठानि ययाचे। न चात्रात्मघातदोषः--'अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः । भृग्वग्निजलसंपातैमरणं प्रविधीयते, ।।' इत्युक्तेः ।।८१॥
अन्वयः-इत्थं गते सति वसुधाधिपेन गतघृणः “अत एव' वध्यः अयं जनः कि विधत्ताम् इति अभिहितः सः मुनिः सदारः परासुं पुत्रम अनुगन्तुमनाः सन् हुताशनवतः एधान् ययाचे ।
याख्य!- इत्थं-पूर्वोक्त प्रकारेण गते प्रवृत्ते जाते सति वसूनि दधातीति वसुधा, वसुधायाः अधिपस्तेन वसुधाधिपेन राज्ञा दशरथेन गता-नष्टा घृणा करुणा यस्य स गतघृणः हन्तृत्वात् कृपारहित इत्यर्थः, अत एव वधमहंतीति वध्यः हन्तु योग्यः वध्य इति वा वध्यः--शीर्षच्छेद्यः अयं पुरतः स्थितः जनः मल्लक्षणः कि विधत्ता--कि कुरुताम् इति एवमभिहितः कथितः । मया दशरथेन किं कर्तव्यमिति विज्ञापित इत्यर्थः, सः-मुनिः दारयन्ति भातृबन्धूनिति दाराः, दारैः सहितः सदारः-सभार्यः परागताः- नष्टाः असवः-प्राणाः यस्य स तं परासुं-मृतं पुत्रम्, अनु- पश्चात् गन्तुं -यातुं मतुमित्यर्थः मन:-चित्तं यस्य सोऽनुगन्तुमनाः सन् हुत. मश्नातीति हुताशनः-वह्निः अस्ति येषान्ते हुताशनवन्तस्तान् हुताशनवतः= अग्निसहितान् एधान् काष्ठानि ययाचे = याचितवान् प्रार्थयामासेत्यर्थः ।