________________
३२२
रघुवंशमहाकाव्ये संजी०- शाप इति । अदृष्टा तनयाननपद्मशोभा येन तस्मिन्नपुत्रके मयि भगवता पातितः वज्रप्रायत्वात् 'पातित' इत्युक्तम् । अयं 'पुत्रशोकान्मियस्व' इत्येवंरूपः शापोऽपि सानुग्रहः वृद्धकुमारीवरन्यायेनेष्टावाप्तेरन्तरीयकत्वात्सोपकार एव । निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह--कृष्यामिति । इन्धनैः काष्ठेरिद्धः प्रज्वलितो ज्वलनोऽग्निः कृष्यां कर्षणार्हाम् । 'ऋदुपधाच्चाक्लूपि घृतेः' (पा. ३।१।११०) इति क्यप् । क्षितिं दहन्नपि बीजप्ररोहाणां बीजाङकुराणां जननीमुत्पादनक्षमा करोति ॥२०॥
अन्वयः-अदृष्टतनयाननपद्मशोभे मयि भगवता पातितः अयं शापः अपि सानुग्रहः "एव" "इन्धनेद्धः ज्वलनः कृष्यां चितिं दहन् अपि खलु बीजप्ररोहजननी करोति ।
व्याख्या-न दृष्टा अदृष्टा, तनोति कुलमिति तनयः, तनयस्य-पुत्रस्य आननं-मुखम् एव पञ-कमलमिति तनयाननपद्मं तस्य शोभा कान्तिः श्रीः, इति तनयाननपद्मशोभा, अदृष्टा तनयाननपद्मशोभा येन सः अदृष्टतनयाननपद्मशोभस्तस्मिन् अदृष्टतनयाननपद्मशोभे मयि-दशरथे भगवता त्वया तापसेन पातितः- दत्तः वज्रसमानत्वात् पातित इत्युक्तम् । अयं-पुत्रशोकात् मरिष्यसे-इत्येवंरूपः शापः= अपकारगीः, अपि अनुग्रहेण सहितः सानुग्रहः-सोपकार एव, सोपकारत्वमेवार्थान्तरन्यासेनाह=इन्धे अग्निः एभिरिति इन्धनानि । इन्धनः काष्ठैः इद्धः-प्रदीप्तः इति इन्धनेद्धः ज्वलनः अग्निः कृष्यां-कर्षणयोग्यां क्षिति-पृथिवीं दहन्-ज्वलन् अपि बीजस्य-अंकुरकारणस्य प्ररोहाः-ग्रंकुरास्तेषां जननी उत्पादनकी तां बीजप्ररोहजननीम् करोतिविदधाति ।
समासः-न दृष्टा अदृष्टा, तनयस्य अाननम् इव पद्ममिति तनयाननपद्मं तस्य शोभा इति तनयाननपद्मशोभा, अदृष्टा तनयाननपद्मशोभा येन सः अदृष्टतनयानतपद्मशोभस्तस्मिन् अदृष्टतनयाननपद्मशोभे । अनुग्रहेण सहितः सानुग्रहः । इन्धनः इद्ध इन्धनेद्धः । बोजस्य प्ररोहाः बीजप्ररोहाः बीजप्ररोहाणां जननी तां बीजप्ररोहजननीम् ।
हिन्दी-पुत्र के मुख कमल की शोभा को न देखनेवाले ( निःसंतान ) मेरे ऊपर आपके द्वारा गिराया गया ( दिया गया ) यह ( कि पुत्रशोक में मरोगे )