________________
रघुवंशमहाकाव्ये
इत्यर्थः । 'ऋक्पूरब्धः-' (पा. ५।४७४) इत्यादिना समासान्तोऽच्प्रत्ययः । तं समधुरम् । अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव । मधुवसन्तः । 'अथ पुष्परसे मधुः । दैत्ये चैत्र वसन्ते च मधुः' इति विश्वः । नवः कुसुमैरुपलक्षितः सन्, समाववृते समागतः। 'रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्' इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ॥२४॥
अन्वयः-अथ यमकुबेरजलेश्वरवज्रिणां समधुरम् अञ्चितविक्रमम् एकनराधिपं तं सेवितुम् इव मधुः नवैः कुसुमैः उपलक्षितः सन् समाववृते ।
व्याख्या-अथ दैत्यविजयानन्तरम् यमयति लोकानिति यमः। कुत्सितं बेरं-शरीरं यस्य स कुबेरः कुष्ठित्वादित्यर्थः । कुम्बति धनमाच्छादयतीति वा कुबेरः । जलस्य ईश्वरः इति जलेश्वरः। वज्रोऽस्यास्तीति वज्री। यमः धर्मराजः कुबेरः= धनदः जलेश्वरः वरुणः वज्री-इन्द्रः, एषामितरेतरयोगः यमकुबेरजलेश्वरवज्रिणस्तेषां यमकुबेरजलेश्वरवज्रिणां समा तुल्या धूः भारो यस्य स तं समधुरम् । अञ्च्यते स्म इति अञ्चितः पूजितः विक्रमः पराक्रमो यस्य स तम् अञ्चितविक्रमम् नराणामधिपः नराधिपः । एकः अद्वितीयश्चासौ नराधिपः नृपतिरिति एकनराधिपस्तम् एकनराधिपं तं दशरथं सेवितुं = परिचरितुम् श्रयितुम्, इव-यथा मधुः वसन्तः ऋतुराज इत्यर्थः नवैः नूतनः कुस्यन्ति-संश्लिष्यन्तीति कुसुमानि तैः कुसुमैः= पुष्पैः उपलक्षितः सन् समाववृते समाजगाम । राज्ञः पावें रिक्तपाणिः न गच्छेदिति हेतोः पुष्पसमेतो वसन्तः राजानं सेवितुमागत इत्यर्थः ।
समासः-यमश्च कुबेरश्च जलेश्वरश्च वज्री च यमकुबेरजलेश्वरवविणस्तेषां यमकुबेरजलेश्वरवज्रिणाम् । समा धूः यस्य स तं समधुरम् । अश्चितः विक्रमो यस्य सः, तम् अञ्चितविक्रमम् । एकश्चासौ नराधिपस्तम् एकनराधिपम् ।
हिन्दी-इन्द्र की सहायता करने के पश्चात् , यम कुबेर वरुण और इन्द्र के बराबर भार वाला (अर्थात् समदर्शी तथा दान देने से और नियमन तथा ऐश्वर्यं से उक्त देवताओं के तुल्य ) प्रशंसनीय पराक्रमी उन एकच्छत्र, राजा दशरथ की सेवा करने के लिये नये नये पुष्पों से युक्त होकर वसन्त ऋतु प्रा गया । अर्थात् जब वसन्त आया, मानों राजा की सेवा करने के लिये पुष्प लेकर आया ॥२४॥