________________
२६१
नवमः सर्ग: असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भूता । दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ।।२३।।
संजी०–असकृदिति । एकरथेनाद्वितीयरथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भूता दशरथेनासकृद् बहुशो दिनकरस्याभिमुखाः । अभिमुखस्थिता इत्यर्थः । रणरेणवः सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ॥२३॥ ___ अन्वयः- एकरथेन तरस्विना हरिहयाग्रसरेण धनुर्धता असकृत् दिनकराभिमुखाः रणरेणवः सुरद्विषां रुधिरेण रुरुधिरे।
व्याख्या--एकः= अद्वितीयः रथः स्यन्दनं यस्य स तेन एकरथेन तरः= बलमस्यास्तीति तरस्वी तेन तरविना-बलवता हरिः-पीतवर्णः हयः। अश्वो यस्य स हरिहयः, तस्य हरिहयस्य इन्द्रस्य अग्रे सरतीति तेन हरियाग्रसरेण धनुः=चापं बिभर्ति धारयतीति धनुर्भृत् तेन धनुर्भूता-दशरथेन न सकृत् असकृत्बहुवारम् । दिनं करोतीति दिनकरः । दिनकरस्य-सूर्यस्य अभिमुखाः संमुखाः इति दिनकराभिमुखाः रणस्य युद्धस्य रेणवः धूलयः इति रणरेणवः सुरान्देवान् द्विषन्तीति सुरद्विषस्तेषां सुरद्विषां-दैत्यानां रुणद्धि, रुध्यते वा रुधिरं तेन रुधिरेण रक्तेन रुरुधिरे-रुद्धाः=निवारिताः ।
समासः--एकः रथो यस्य स एकरथस्तेन एकरथेन । हरिः हयो यस्य स हरिहयः । हरिहयस्य अग्रसरः हरिहयाग्रसरस्तेन हरिहयाग्रसरेण । धनुषः भृत् धनुर्भूत् तेन धनुभृता। दिनकरस्य अभिमुखाः दिनकराभिमुखाः । रणस्य रेणवः रणरेणवः सुराणां द्विषः सुरद्विषस्तेषां सुरद्विषाम् ।
हिन्दी-अकेले रथपर चढ़कर युद्ध करनेवाले बलवान् तथा युद्ध में इन्द्र के आगे चलनेवाले धनुर्धारी दशरथ ने अनेकबार सूर्य के सामने छाई हुई युद्ध की धूलि को दैत्यों के खून से रोक दिया था । अर्थात् राक्षसों के खन से भींग जाने से धूल को दबा दिया था ॥२३।।
अथ समाववृते कुसुमैनवैस्तमिव से वितुमेकनगधिपम् ।। यमकुबेरजलेश्वरञिणां समधुरं मधुरश्चितविक्रमम् ।।२४
संजी०--अथेति । अथ यमकुबेरजलेश्वरवनिणां धर्मराजधनदवरुणामरेन्द्राणां समा धूर्भारो यस्य स समधुरः। माध्यस्थवितरणसंनियमनश्वर्यैस्तुल्यकक्ष