________________
२२६
रघुवंशमहाकाव्ये . हिन्दी-ऐश्वर्य पाने पर, घमंड से होने वाली, लोकनिन्दा से बचने वाले तुमने जो आत्मज्ञान को प्रकट किया था, अर्थात् आत्मज्ञान का परिचय दिया था, सो अब मानसिक सन्ताप के होने पर भी धीरतापूर्वक फ़िर उसी आत्मज्ञान का प्रकाश किया जाय । अर्थात् विद्वान् को सभी अवस्थाओं में धैर्य से एक सा रहना चाहिए ॥४॥
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ।।८५॥
संजी०–रुदतेति । रुदता भवता सा कुत एव लभ्यते ? न लभ्यत एव । अनुम्रियत इत्यनुमृत् । क्विप । तेनानुमृतानुमृतवताऽपि भवता पुनर्न लभ्यते । कथं न लभ्यत इत्याह-परलोकजुषां लोकान्तरभाजां देहिनाम् । गम्यन्त इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैर्भिन्नपथाः पृथक्कृतंमार्गा हि । परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ।।५।।
अन्वयः-रुदता भवता सा कुतः एव लभ्यते, अनुमृता अपि भवता पुनः न लभ्यते, हि परलोकजुषां देहिनां गतयः स्वकर्मभिः भिन्नपथाः ।
व्याख्या--रोदति इति रुदन् तेन रुदता-रोदनं कुर्वता भवता त्वया सा= इन्दुमती कुत एव-कस्मात् लभ्यते प्राप्यते न लभ्यते एवेत्यर्थः । अनु-पश्चात् म्रियते इत्यनुमृत्-तेन अनुमृता पश्चान्मरणेनापि भवता पुनः भूयः न लभ्यते प्राप्तुं शक्यते, हि-यत: लोक्यते इति लोकः परः अन्यश्चासौ लोक:भवन मितिपरलोकः परलोकं जुषन्ते सेवन्ते, ते परलोकजुषस्तेषां परलोकजूषां, देहोऽस्ति येषां ते देहिनस्तेषां देहिनां = प्राणिनां गम्यन्ते-प्राप्यन्ते इति गतयः प्राप्तव्यस्थानानि स्वस्य-निजस्य कर्माणि-पूर्वाचरितानि-पुण्यपापादीनि, इति स्वकर्माणि तैः स्वकर्मभिः । भिन्नः पृथक् पन्थाः-मार्गः यासां ताः भवन्तीति शेषः। परलोकेऽपि स्वस्वपुण्यपापानुरूपफलभोगाय भिन्न-भिन्ने शरीरे गमनात् अनुमृतापि त्वया सा न प्राप्यते इति भावः ।।
समासः-परश्वासौ लोकः परलोकः, तं जुषन्ते इति परलोकजुषस्तेषां परलोकजुषाम् । स्वस्य कर्माणि तैः स्वकर्मभिः । भिन्नः पन्थाः यासां ताः भिन्नपथाः ।