________________
अष्टमः सर्गः
२२५ अजेन इयमिति अंगुल्या निर्देशः । वसूनि = रत्नानि धारयतीति वसुधा पृथिवी अवेक्ष्यताम्-दृश्यतां-पाल्यतामित्यर्थः । हि-यस्मात् नृपाः राजानः वसूनि सन्ति अस्यां सा वसमती तया वसुमत्या पृथिव्या कलत्राणि सन्ति येषां ते कलत्रिणः= कलत्रवन्तः स्त्रीमन्त इत्यर्थः । अतः न शोचनीयम् ।
समास:- तस्याः अपायस्तस्य चिन्ता, तया तदपायचिन्तया ।
हिन्दी-इसलिये इन्दुमती के मरण की चिन्ता करना व्यर्थ है "क्योंकि" जन्म लेने वाले का मरना निश्चित है "अवश्यंभावी है"। अब तुम इस पृथिवी का पालन करो, क्योंकि राजा तो पृथिवी से ही स्त्री वाला होता है। अर्थात राजाओं की वास्तविक स्त्री तो पृथिवी ही है । अतः शोक न करो ॥३॥
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया । मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ।।८४॥
संजी०-उदय इति । उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झत। परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रमा तजनितं ज्ञानमिति यावत् । आविष्कृतं प्रकाशितम् । तच्छ्रतं मनसो ज्वरे संताप उपस्थिते प्राप्तेऽक्लोबतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम् । विदुषा सर्वास्ववस्थास्वपि धीरेण भवितव्यमित्यर्थः ।४।। ___ अन्वयः-उदये सति मदवाच्यम् उज्झता त्वया यत् आत्मवत् श्रुतम आविष्कृतम् , तत् मनसः ज्वरे उपस्थिते अक्लीबतया पुनः प्रकाश्यताम् ।
व्याख्या-उदयते इति उदयस्तस्मिन् उदये-अभ्युदये सति मदेन हर्षेण यद वाच्यं -निन्दादुःखमिति मदवाच्यम् उज्झता-त्यजता त्वया भवता यत् आत्म अस्ति यस्मिन् शास्त्रे तत् प्रात्मवत्-अध्यात्मप्रचुरम्-प्रात्मप्रतिपादकमित्यर्थः श्रुत् शास्त्रं तदुत्पन्नं ज्ञानमित्यर्थः। आविष्कृतं प्रकटीकृतम् तत् श्रुतं मनसः-चित्तए ज्वरे-सन्तापे उपस्थिते-प्राप्ते अक्लोबस्य भावः अल्लीबता तया अक्लीबतया शौर्यरण धैर्येण पुनः भूयः प्रकाश्यतां प्रकटीक्रियताम् । पण्डितेन सर्वावस्थासु धीरतय स्थातव्यम् ।
समासः-मदेन वाच्यं मदवाच्यम् तत् । आत्मा प्रस्यास्तीति आत्मवत् ।