________________
२०२
रघुवंशमहाकाव्ये हिन्दी- 'और' यह तुम्हारी, सर्वप्रथम एकान्त की सखी, ‘एवं' तुम्हारी विलासपूर्ण गमन के बन्द होने से शब्दशून्य मेखला (तगड़ी) सदा के लिए सोती हुई तुमको देखकर तुम्हारे शोक में मरी सी नहीं दिखाई देती है क्या ? अर्थात् मरी ही दीख रही है ॥५॥
कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् । पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥५६॥ त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ॥३०॥
संजी०--कलमिति । त्रिदिवेति । युग्मम् । उभयोरेकान्वयः । अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम् । कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम् । पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः। पवनेन वायुना भूतलतास्वीषत्कम्पितलतासु विभ्रमा विलासाः । इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः । एषु कोकिलादिस्थानेष्विति शेषः । त्रिदिवोत्सुकयापोह जीवन्त्येव स्वर्ग प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इत्यर्थः । तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः । ते तु त्वत्संगम एव सुखकारिणः, नान्यथा। प्रत्युत प्राणानपहरन्तीति भावः ॥५९-६०॥
अन्वयः-अन्यभृतासु कलं भाषितम्, कलहंसीषु मदालसं गतम् , पृषीषु विलोलम् ईक्षितं, पवनाधूतलतासु विभ्रमाः, इति अमी गुणाः 'एषु' त्रिदिवोत्सुकया अपि त्वया माम् अवेक्ष्य सत्यं निहिताः तु तव विरहे गुरुव्यथं मे हृदयम अवलम्बितुं न क्षमाः। ( इति द्वयोरेकत्रान्वयादिदं युग्मम् )।
व्याख्या-अन्यैः काकैः भृताः पालिताः इति अन्यभृतास्तासु अन्यभृतासु-कोकिलासु कलते इति कलः, कलं मधुरं भाषितं भाषणं वचनमित्यर्थः । कलाः=मधुरवाचः हंस्यः, इति तासु कलहंसीषु-राजहंसीषु न लसतीति अलसः मदेनालसस्तं मदालसम्मन्थरगमनम्, पृषता: सन्ति यासु ताः पृषत्यः पर्षन्ति वा पृषत्यस्तासु पृषतीषु - हरिणीषु विलोलं