________________
..
अष्टमः सर्गः
२०१
समासः नवाश्च ते पल्लवास्तेषां संस्तरस्तस्मिन् नवपल्लवसंस्तरे । चितायाः अधिरोहणमिति चिताधिरोहणम् तत् ।
हिन्दी-कोमल पल्लवों के बिछौने पर भी रखा हुआ यह तुम्हारा कोमल शरीर जब पीड़ा पाता है तो हे सुन्दर जांघवाली, बोलो, वह तुम्हारा शरीर चिता पर बैठने को कैसे सहन करेगा । क्योंकि चिता तो कठोर होती है ॥५७॥
इयमप्रतिबोधशायिनी रशना त्वां प्रथमा रहःसखी। गतिविभ्रमसादनीरवा न शुचा नानु मृतेव लक्ष्यते ॥५८।।
संजी०- इयमिति । इयं प्रथमाऽऽद्या रहःसखी। सुरतसमयेऽप्यनुयानादिति भावः । गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाऽप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम् । मृतामित्यर्थः । त्वामनु त्वया सह । 'तृतीयार्थे' (पा. १।४।८५ ) इत्यनुशब्दस्य कर्मप्रवचनीयत्वात् द्वितीया। शुचा शोकेन मृतेव न लक्ष्यत इति न । लक्ष्यत एवेत्यर्थः । संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥५८॥
अन्वयः- इयं प्रथमा रहःसखी गतिविभ्रमसाद नीरवा रशना अप्रतिबोधशायिनों त्वाम् अनु शुचा मृता इव न लक्ष्यते इति न ।
व्याख्या-इयम्=पुरो दृश्यमाना प्रथमा = प्राद्या रह्यते इति रहः रमन्ते यत्रेति वा रहः । समानं ख्यायते जनेरिति सखी, रहसि एकान्ते सखी पाली, इति रह:सखी सुरतकालेऽपि सहावस्थानादित्यर्थः । विभ्रमरणं विभ्रमः गतेः-गमनस्य विभ्रमः विलासस्तस्य सादः विनाशस्तेन नीरवा=निःशब्दा, इति गतिविभ्रमसादनीरवा, रति =शब्दं करोतीति रशना-मेखला, नास्ति प्रतिबोधः प्रतिज्ञानं यस्मिन् तत् अप्रतिबोधम् । अप्रतिबोध=पुनरुद्बोधरहितं यथा स्यात्तथा शायिनी-सुप्ता मृतेत्यर्थः, इति अप्रतिबोधशायिनी ताम् तथोक्ताम् । त्वां भवतीम् इन्दुमतीमित्यर्थः, अनुसह त्वया सहेति यावत् शुचा शोकेन मृता-पञ्चत्वं गता इव यथा न लक्ष्यते न दृश्यते इति न, किन्तु लक्ष्यते एवेति ।
समासः-रहसि सखी रहःसखी। न प्रतिबोधः यस्मिन् कर्मणि तत् अप्रति बोधम्, अप्रतिबोधं यथा स्यात्तथा शायिनी तामप्रतिबोधशायिनीम् । गतेः विभ्रमः गतिविभ्रमस्तस्य सादः तेन नीरवा गतिविभ्रमसादनीरवा ।