________________
रघुवंश महाकाव्ये
अन्वयः - हे प्रिये तत् आशु मे विषादं नक्तम् ओषधिः ज्वलितेन तुहिनाद्रेः गुहागतम् तमः हव प्रतिबोधेन अपोहितुम् अर्हसि ।
१३८
व्याख्या - प्रीणातीति प्रिया तस्याः संबुद्धौ हे प्रिये = दयिते, तत् = तस्मात् कारणात् अश्नुते इति प्राशु = शीघ्रं मे = अजस्य वेवेष्टि व्याप्नोतीति विषा तां ददाति तं विषादं दुःखं नक्तं = रात्रौ श्रोषः = प्लोषः दीप्तिर्वा धीयतेऽत्र सा ओषधि : = लता, ज्वलितेन = प्रकाशेन, तोहति = प्रर्दयतीति तुहिनं तस्य अद्रिः = पर्वतस्तस्य तुहिनाद्रे : - हिमालयस्य गृहति = संवृणोतीति गुहा तस्यां गुहागतम् = कन्दराप्रविष्टम्,
गतं लीनमिति
इव = यथा
प्रतिबोधेन = ज्ञानेन
प्रपोहितुं = दूरीकर्तुम् अर्हसि = योग्यासि ।
तमः=अन्धकारम्
समासः - गुहायां गतं तत् गुहागतम् । तुहिनस्य अद्रिस्तुहिनाद्रिस्तस्य
तुहिनाद्रेः ।
हिन्दी - हे प्रिये ! इसलिये तुम शीघ्र ही मेरे दुःख को फिर से जागकर वैसे ही दूर करो अर्थात् मेरे दुःख को मिटाओ, जैसे कि रात में चमकने वाली मोषध (बूटी ) अपने प्रकाश से हिमालय पर्वत की अन्धकार को दूर कर देती है ॥ ५४ ॥
गुफा में गये ( छिपे हुए )
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुममिवैपङ्कजं विरताभ्यन्तरषटपदस्वनम् ॥५५॥
संजी० - इदमिति । इदमुच्छ्वसित ालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं तव मुखम् । निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तर्वर्तिनां षट्पदानां स्वनो यत्र तत् । निःशब्दभृङ्गमित्यर्थः । एकपङ्कजमद्वितीयं पद्ममिव । मां दुनोति परितापयति ।। ५५ ।।
अन्वयः -- इदम् उच्छ्वसितालकं विश्रान्तकथं तव मुखं, निशि सुप्तं विरताभ्यन्तरषट्पदस्वनम् एकपङ्कजम् इव मां दुनोति ।
व्याख्या-इदम्-पुरो दृश्यमानं उच्छ्वसिताः = चलिताः ( कम्पमाना इत्यर्थः ) श्रलकाः = चूर्णकुन्तलाः ( कुटिलकेशा इत्यर्थः ) यस्मिन् तत् उच्छ्वसितालकं विश्रान्ता-निवृत्ता कथा = संलापः यस्मिन् तत् विश्रान्तकथम्, तव = इन्दुमत्याः,