________________
अष्टमः सर्गः कुसुमोत्ववितान्वलोभृतश्चलयन्भृङ्गरुचस्तवालकान् । करभोरु ! करोति मारुतम्त्वदुपावर्तन िमे मनः ।।५।।
संजी०-कुसुमेति । कुसुमैरुत्खचितानुत्कर्षेण रचितान् वलीभृतो भङ्गीयुक्तान् । कुटिलानित्यर्थः । भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्पयन् मारुतः हे करभोरु करभदृसशोरु ! 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति । त्वदुजीवने शङ्का कारयतीत्यर्थः ॥५३॥
अन्वयः-कुसुमोत्खचितान् वलीभृतः भृङ्गरुचः तव अलकान् चलयन् मारुतः हे करभोरु ! मे मनः त्वदुपावर्तनशङ्कि करोति ।
व्याख्या-कुसुमैः पुष्पैः उत्कर्षेण खचिताः रचिताः प्रथितास्तान् कुसुमोत्खचितान् , वली: भङ्गीः बिभ्रति-धारयन्तीति वलीभृतस्तान् वलीभृतः= कुटिलानित्यर्थः बिभ्रतीति भृङ्गास्तेषां रुक-कान्तिरिव रुक येषां ते तान् भृङ्गरुचः कृष्णानित्यर्थः तव-भवत्याः इन्दुमत्या इत्यर्थः अलन्तीति अलकास्तान् अलकान् कुटिलकेशान् चलयन्=कम्पयन् म्रियन्तेऽनेन विना, वृद्धेन वा इति मारुतः-वायुः, ऊरण यते इति ऊरुः करे भातीति करभः, करभः- मणिबन्धादाकनिष्ठं करस्य बहिर्भागः इव-यथा ऊरु: जानूपरिभागः यस्याः सा, तस्याः सम्बुद्धौ हे करभोरु हे सुजघने ! मे-मम मनः चित्तम्, तव भवत्याः उपावर्तनम् पुनरागमनमिति त्वदुपावर्तनम् त्वदुपावर्तनं शंकते इति त्वदुपावर्तनशंकि 'करोति । तवोज्जीवने शङ्कां कारयति ।
समाम:-कुसुमैः खचितास्तान्, कुसुमखचितान् तव उपावर्तनमिति त्वदुपावर्तनम्, तस्य शकि तत् त्वदुपावर्तन शंकि शृंगाणां रुक् इव रुक येषां ते तान् ।
हिन्दी-हे सुन्दर जांघवाली इन्दुमती ! फूलों से गुथे हुए और धुंघराले, तथा भौंरों के समान काले, तुम्हारे केशों को कपाता हुआ वायु मेरे मन में तुम्हारे फिर से लौट आने की शंका कर रहा है। अर्थात् तुम जी उठी हो ऐसी शंका उत्पन्न कर रहा है ॥५३॥
तदपोहितुमर्हसि प्रिये ! प्रतिबोधेन विषादमाशु मे । ज्वलितेन गुहागतं तमस्तुहिनादेरिव नक्तमोषधिः ॥३४॥
संजो०-तदिति । हे प्रिये ! ततस्नात्कारणादाशु मे विषादं दुःखम् । नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनादेहिमाचलस्य गुहागतं तमोऽन्धकारमिव । प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ।। ५४ ॥