________________
अष्टमः सर्गः मन्त्रयः युवा नृपतिः प्रकृतीः अवेलितुं व्यवहारासनम् भाददे, प्रवयाः नृपतिस्तु धारणां परिचेतुम् उपांशु कुशपूतं विष्टरम् आददे।।
व्याख्या-यौतोति युवा-तरुणः नन्-जनान् पाति रक्षतीति नृपतिः राजा मजः प्रकुर्वन्तीति प्रकृतयस्ता प्रकृती:-प्रजाः कार्यार्थिनीरित्यर्थः प्रवेक्षितुम् अवलोकयितुम् अयं सजनः अयं दुष्टो दण्डनीयः इति परिज्ञानायेत्यर्थः । वि-नाना सन्देहहरणं व्यवहारः, व्यवहारस्य-न्यायस्य धर्मस्येत्यर्थः आसनं-पीठमिति व्यवहारासनम् प्राददे स्वीचकार । प्रगतं वयः यस्यासौ प्रवयाः स्थविरः-वृद्धः नृपतिस्तु धारयति चित्तं सा धारणा तां धारणां=चित्तैकाग्रतां परिचेतुम् अभ्यसितुम् उपगताः अंशवः= किरणाः यत्र तत् उपांशु-विजने कुशः-दर्भः पूतः पवित्र इति तम् कुशपूतं विस्तीयतेऽसौ विष्टरस्तं विष्टरम् आसनम् आददे-समाधितत्परोऽभूदित्यर्थः ।
समासः-व्यवहारस्यासनमिति व्यवहारासनम् तत् । कुशः पूतस्तं कुशपूतन् ।
हिन्दी-जवान राजा प्रज, जनता के कार्यों का न्याय करने के लिए धर्मासन पर बैठते थे और बूढ़े राजा रघु अपने मन की एकाग्रता का अभ्यास करने के लिए एकान्त में कुशा के पवित्र आसन पर बैठते थे ॥१८॥
अनयत्प्रभुशक्तिसंपदा वशमेको नृतीननन्तरान् । अपरः प्रणिधानयोग्यया. ममतः पश्न शरीरगोचरान ।।१६।।
संजी०-अनयदिति । एकोज्यतमः । मज इत्यर्थः । अनन्तरान्स्वभूम्यनन्तरानृपतीन्यातव्यपाठिणग्राहादीन् प्रभुशक्तिसंपदा कोशदण्डमहिम्ना बशं स्वायत्ततामनयत् । 'कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता' इति मिताक्षरायाम् । अपरो रघुः प्रणिधानयोग्यया समाध्यम्यासेन । “योगाभ्यासार्कयोषितोः' इति विश्वः, शरीरगोचरान्देहाश्रयान्पश्च मरुतः प्राणादीन्वशमनयत् । 'प्राणोऽपानः समानशोदानव्यानौ च वायवः । शरीरस्थाः' इत्यमरः ॥१९॥
अन्वयः-एकः अनन्तरान् नृपतीन् प्रभुशनिसंपदा वशम् अनयत, अपरः प्रणिधानयोग्यया शरीरगोचरान् पञ्च मरुतः वशमनयत् ।
व्याख्या-एक:-अजः अन्तं रातीति अन्तरं न अन्तरे-स्वराज्यमध्ये ये ते मनन्त रास्तान् अनन्तरान् = विषयानन्तरान्-शत्रूनित्यर्थः । प्रभवतीति प्रभुः