________________
१६४
रघुवंशमहाकाव्ये व्याख्या- अजः राजा, न जितमिति अजितम्, अजितस्य = अप्राप्तस्य अधिगमः प्राप्तिस्तस्मै अजिताधिगमाय अप्राप्तपदलाभायेत्यर्थः शरदि भवः शारदः विशिष्टः, विपरीतो वा शारदः इति विशारदः । नीतो-नये विशारदाः पण्डितास्तैः नीतिविशारदः- नीतिशास्त्रपण्डितै रित्यर्थः । मंत्र:=गुप्तभाषणमस्ति येषान्ते मंत्रिणः अवश्यं मंत्रयन्ते इति वा मंत्रिणस्तैः मंत्रिभिः अमात्यैः युयुजे-संगतः, रघुः= पूर्वराजः अपि अपायोऽस्ति अस्य तत् अपायि न अपायि, इति अनपायि अनपायि च तत् पदमिति अनपायिपदम्, अनपायिपदस्य = अविनाशिस्थानस्य मोक्षस्येत्यर्थः, “उपलब्धिः-प्राप्तिस्तस्यै अनपायिपदोलब्धये, मोक्षप्राप्तये, आप्यन्ते स्म इति प्राप्ताः ययार्थदर्शिनः यथार्थवादिनश्च तैः प्राप्तः योजनं योगः, योगःचित्तवृत्तिनिरोधः अस्ति येषान्ते योगिनस्तैः योगिभिः सह समियाय-संगतः तत्तदुपायविचारणायेति शेषः।
समासः-न जितमिति, अजितं तस्य अधिगमस्तस्मै अजिताधिगमाय । नीतौ विशारदास्तैः नीतिविशारदः । न अपायि, अनपाय, अनपायं च तत् पदमिति, अनपायिपदं तस्य उपलब्धिस्तस्यै अनपायिपदोपलव्धये ।
हिन्दी-एक और अज नीति शास्त्र के विद्वान मन्त्रियों के साथ न जीते हुए प्रदेशों की प्राप्ति के लिए मिले, अर्थात् दिग्विजय का विचार करने लगे। तथा दूसरी और रधु भी अविनाशी मोक्ष पद को पाने के लिए यथार्थवादी तत्वदर्शी योगियों से मिले, अर्थात् मोक्ष की प्राप्ति के उपाय सोचने के लिए योगियों से मिले ॥१७॥
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा । परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥१८॥
संजी०-नृपतिरिति । युवा नृपतिरजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम् । दुष्टादुष्टपरिज्ञानार्थमित्यर्थः । व्यवहारासनं धर्मासनम् । प्राददे स्वीचकार । प्रवगाः स्थविरो नृपती रघुस्तु । 'प्रवयाः स्थविरो वृद्धः' इत्यमरः । धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुम् । उपांशु विजने । 'उपांशु विजने प्रोक्तम्' इति हलायुधः । कुशः पूतं विष्टरमासनमाददे । 'यमादिगुणसंयुक्ते मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदः ॥' इति वशिष्ठः ॥१८॥