________________
१४६
रघुवंशमहाकाव्ये इति शिरसि स वामं पादमाधाय राज्ञा
मुदवहदनवद्यां तामवद्यादपेतः । रथतुरगरजोभिस्तस्य रूक्षालकाना
___ समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥७०॥ संजी०--इतीति। नोद्यते नोच्यत इत्यवद्यं गद्यम् । 'अवधपण्य(पा. ३।१।१०१) इत्यादिना निपातः। 'कुपूयकुत्सितावद्यखेटगाणकाः समाः' इत्यमरः। तस्मादपेतः । निर्दोष इत्यर्थः। सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत् । आत्मसाच्चकारेत्यर्थः । अयमर्थः 'तमुद्वहन्तं पथि भोजकन्याम्' (७।३५) इत्यत्र न श्लिष्टः। तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा, सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव । एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः ॥७०॥
__ अन्वयः-अवद्यात् अपेतः स इति राज्ञां शिरसि वामं पादम् आधाय अनवद्यां ताम् उदवहत्, तस्य रथतुरगरजोभिः रूक्षालकाना सा एव मर्ता समरविजयलक्ष्मीः बभूव ।
व्याख्या-न उद्यते = न उच्यते इत्यवद्यं तस्मात् अवद्यात् = गात निन्दनीयादित्यर्थः अपेतः = शून्यः दोषरहित इत्यर्थः सः अजः इति = इत्थम् राज्ञां = भूपालानां शिरसि = मस्तके वामस्तं वाम = सव्यं पादं = चरणम् आधायकृत्वा, अनवद्यां =दोषरहितां सर्वांगसुन्दरी पतिव्रताञ्चेत्यर्थः ताम् इन्दुमतीम् उदवहत उपानयत् स्वकीयां कृतवानित्यर्थः, तस्य = अजस्य रमन्तेऽत्र, अनेन बा रथः= स्पन्दनं तस्य तुरगा: अश्वाः रथतुरगास्तेषां रजांसि =धूलयस्तैः रथतुरगरजोभिः रूक्षयन्तीति रूक्षाणि = परुषाणि अचिक्कणानीत्यर्थः, अलकानां = केशानाम अग्राणि =अग्रभागाः यस्याः सा रूक्षालकाना सा= इन्दुमती एव = निश्चये मर्ता - मूर्तिमती विजयस्य लक्ष्मीः विजयलक्ष्मीः समरे = युद्धे विजयलक्ष्मी:, समरविजयलक्ष्मी: बभूव = जाता। ___समासः--तुरेण = त्वरया गच्छन्तीति तुरगाः । रमन्तेऽत्रासौ रथ : । रजतीति रजः । रथस्य तुरगास्तेषां रजांसि तैः रथतुरगरजोभि: । रूक्षाणि अलकानाम् अग्राणि यस्याः सा रूक्षालकाना। समरे या विजयलक्ष्मीरिति समरविजयलक्ष्मीः । मूर्छति स्म मूर्ता।