________________
सप्तमः सर्गः
१४५ हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् । स्थली नवाम्भ:पृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥६९॥
संजी०-हृष्टेति । सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया विजिता यतोऽतः प्रियमजं साक्षात् स्वयं नाभ्यनन्दन्न प्रशशंस । किंतु नवैरम्भःपृषतः पयोबिन्दुभिरभिवृष्टाऽभिषिक्ता स्थल्यकृत्रिमा भूमिः । 'जानपदकुण्डगोणस्थल-' (पा, ४।१।४२ ) इत्यादिनाऽकृत्रिमार्थे ङीष् । अभ्रवृन्दं मेघसंघ मयूरकेकाभिरिव सखीनां वाभिरभ्यनन्दत् ॥६९॥
अन्वयः-सा हृष्टा अपि हीविजिता "यतः अतः” प्रियं साक्षात् न अभ्यनन्दत् “किन्तु'' नवाम्भःपृषताभिवृष्टा स्थली अभ्रवृन्दं मयूरकेकाभिः इव सखीनां वाग्भिः अभ्यनन्दत् ।
व्याख्या-सा = इन्दुमती हृष्टा अपि प्रसन्नापि पत्युः पराक्रमेण प्रमुदिताषीत्यर्थः, ह्रिया = लज्जया विजितातदधीना यस्मात् तस्मात् कारणात् प्रियं = दयितमजं साक्षात् = स्वयं न = नहि अभ्यनन्दत् =प्रशंशस स्वमुखेन प्रशंसां न कृतवतीत्यर्थः, किन्तु पर्षन्तीति पृषताः अम्भसः = जलस्य पृषताः = बिन्दवः अम्भःपृषताः नवा: = नूतनाः येऽम्भःपृषतास्तैः अभिवृष्टा अभिषिक्ता इति नवाम्भःपृषताभिवृष्टा स्थली = अकृत्रिमा भूमिः अभ्राणां - मेघानां वृन्दम् = समूहस्तद् अभ्रवृन्दम् मह्यां रौतीति मयूरः के मूर्धनि कायतीति केका । मयूरस्य = बहिणः नीलकण्ठस्य केका: = स्ववाण्यस्ताभिः मयूरकेकाभिः इव = यथा सखीनां= आलीनां वाग्भिः = वचनैः अभ्यनन्दत् = अभिनन्दितवती।
समास:--हिया विजिता ह्रीविजिता। नवै: अम्भसः पृषतैः अभिवृष्टा नवाम्भ :पृषताभिवृष्टा। मयूरस्य केकास्ताभिः मयूरकेकाभिः । अभ्राणां वृन्दं तत् अभ्रवृन्दम् ।
हिन्दी-अपने पति के पराक्रम से इन्दुमती प्रसन्न तो हुई पर लज्जा के कारण स्वयं पति का अभिनन्दन ( प्रशंसा) न कर सकी। किन्तु नए जल की बँदों से भींगी पथिवी, जैसे मोर की वाणी से मेघों का स्वागत करती है वैसे ही सखियों की वाणी से इन्दुमती ने अपने पति की प्रशंसा की ॥ ६९ ॥