________________
सप्तमः सर्गः
म्भेषु निषण्णा अवष्टब्धा देहा यस्य तत् । नरदेवानां राज्ञां सेनैव सैन्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। निद्राविधेयं निद्रापरतन्त्रं तस्थौ ॥६२।।
अन्वयः-ततः धनुष्कर्षणमूढहस्तम्, एकांसपर्यस्तशिरस्त्रजालम्, ध्वजस्तम्भनिषण्णदेहम्, नरदेवसैन्यं निद्राविधेयं तस्थौ ।
व्याख्या-ततः = गान्धर्वास्त्रप्रयोगानन्तरम् धनुष: चापस्य कर्षणं-संधानं तस्मिन् धनुष्कर्षणे मूढः चेष्टाशून्य इत्यर्थः हस्तः = करः यस्य तत् धनुष्कर्षणमूढहस्तम्, एकश्चासौ अंसः एकांस: एकांसे एकस्कन्धे पर्यस्तं व्यस्तं = पतितं शिरस्त्राणां शीर्षकाणां जालं=समूहः यस्य तत् एकांसपर्यस्तशिरस्त्रजालम् । ध्वजानां= पताकानां स्तम्भाः = स्थूणाः= यूपाः इति ध्वजस्तम्भाः तेषु निषण्णाः पतिता: देहाः = शरीराणि यस्य तत् ध्वजस्तम्भनिषण्णदेहम्, दीव्यन्तीति देवाः नराणां देवा: नरदेवाः, सेना एव सैन्यं नरदेवानां = भूपालानां सैन्यं = सेना इति नरदेवसैन्यम्, निद्रायाः = स्वापस्य विधेयं = परतन्त्रमधीनमित्यर्थः, इति निद्राविधेयं तस्थौ = अतिष्ठत्।
समासः--धनुषः कर्षणं तस्मिन् मूढः हस्त: यस्य तत् धनुष्कर्षणमूढहस्तम् । शिरांसि त्रायन्ते यस्तानि शिरस्त्राणि, शिरस्त्राणां जालमिति शिरस्त्रजालम्, एकश्चासौ अंसः एकांसः, एकांसे पर्यस्तं शिरस्त्रजालं यस्य तत् एकांसपर्यस्तशिरस्त्रजालम् । स्तम्नातीति स्तम्भः, ध्वजानां स्तम्भाः ध्वजस्तम्भास्तेषु निषण्णा: देहाः यस्य तत्, ध्वजस्तम्भनिषण्णदेहम् । नराणां देवा: नरदेवास्तेषां सैन्यमिति नरदेवसैन्यम् । विधातुं शक्यं विधेयम्, निद्राया: विधेयम् निद्राविधेयम् ।
हिन्दी-गान्धर्व अस्त्र के छोड़ने पर उन राजाओं की सेना नींद (निद्रा) के वशीभूत हो गई, और धनुष के खींचने में उनके हाथ रुक गए, तथा उनके टोप एक कन्धे पर झुक गए, तथा झंडों के दण्डों पर उनके शरीर लटक गए, अर्थात् उन का सहारा लेकर सो गए ॥६२॥
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलज कुमारः । तेन स्वहस्ताजितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥६३॥
संजी-तत इति। ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये । अतिश्लाघ्य इति भावः । अधरोष्ठे जलजं शङखं निवेश्य । 'जलजं शङखपद्मयोः' इति विश्वः । दध्मौ मुखमारुतेन पूरयामास । तेनौष्ठनिविष्टेन शङखेनैक