________________
१३८
रघुवंशमहाकाव्ये संजी०-प्रियंवदादिति । अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः । स्वप्ननिवृत्तलौल्यः स्वप्नवितृष्णः। जागरूक इत्यर्थः । असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तं गान्धर्वं गन्धर्वदेवताकम् । 'सास्य देवता' (पा. ४।२।२४ ) इत्यण् । प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रायुक्त प्रयुक्तवान् ॥६१॥ ___ अन्वयः-अधिराजसूनुः कुसुमात्रकान्तः स्वप्ननिवृत्तलौल्यः असौ कुमारः प्रियंवदात् प्राप्तम् गान्धवं प्रस्वापनम् अस्त्रम् राजसु प्रायुङ्क्त ।।
व्याख्या-राजभ्यः अधिकः अधिराजः अधिराजस्य = महाराजस्य सूनुः पुत्रः, इति अघिराजसूनुः= महाराजसुतः कुसुमानि = पुष्पाणि एव अस्त्रम्= आयुधं यस्य सः कुसुमास्त्रः = मदनः स इव कान्तः = सुन्दरः, इति कुसुमास्त्रकान्तः स्वप्नात् % तन्द्रायाः निवृत्तं परावृत्तं लौल्यंतृष्णा यस्य सः स्वप्ननिवृत्तलौत्यः= अप्रमत्तः = जागरूक इत्यर्थः, असौ कुमारयति = कीडतीति कुमारः = युवराजोऽजः, प्रियं वदतीति प्रियंवदस्तस्मात् प्रियंवदात् =एतन्नामकात् गन्धं = सौरभम् अर्वतीति गन्धर्वस्तस्मात् गन्धर्वात् =यक्षात् प्राप्तम् = लब्धम् गन्धर्वो देवतास्य तद् गान्धर्वम् = गन्धर्वदेवताकम, प्रकर्षेण स्वापयति तत् प्रस्वापनं = निद्राकारकमस्त्रं = संमोहननामकम् राजसु = विरोधिभूपालेषु प्रायुक्त = प्रयुक्तवान् । तत्प्रयोगेण च सर्वे राजानः मृतवत् सुप्ताः इत्यर्थः ।।
समासः-प्रियं वदतीति प्रियंवदस्तस्मात् प्रियंवदात् । राजभ्योऽधिकः अधिराजः अधिराजस्य सूनुः, अधिराजसूनुः । कुसुमान्येव अस्त्राणि यस्य स कुसुमास्त्रः स इव कान्तः, इति कुसुमास्त्रकान्तः । स्वप्नात् निवृत्तं लौल्यं यस्य स स्वप्ननिवृत्तलौल्यः ।
हिन्दी-महाराज रघु के पुत्र कामदेव के समान सुन्दर जागरूक सावधान अज ने प्रियंवद नामक गन्धर्व से प्राप्त संमोहन नाम के अस्त्र को राजाओं पर छोड़ा जिससे वे सब सो गए ॥६१।।
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ।।६२।।
संजी०-तत् इति । ततो धनुष्कर्षणे चापकर्षणे मूढहस्तमव्यापृतहस्तम् । एकस्मिन्नंसे पर्यस्तं स्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत् । ध्वजस्त