________________
१२२
रघुवंशमहाकाव्ये सारथीनपालभ्य 'असाधु कृतम्' इत्यधिक्षिप्य । पूर्व यैः स्वयं सादिता हताः। लक्षितपूर्वकेतून् । पूर्वदृष्टः केतुभिः प्रत्यभिज्ञातानित्यर्थः । तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजह्वः ॥४४॥
अन्वयः-रथस्थाः प्रहारमूपिगमे सति निवर्तिताश्वान् यन्तृन् उपालभ्य, यः (पूर्व) सादिताः लक्षितपूर्वकेतून् तानेव सामर्षतया निजध्नुः ।
व्याख्या:-रथे =स्यन्दने तिष्ठन्तीति रथस्थाः रथिनः प्रहारेण मारणेन मूर्छा = मोहः इति प्रहारमह्यं तस्याः अपगमः विनाशस्तस्मिन् प्रहारमच्छपिगमे सति = चैतन्ये आगते सतीत्यर्थः, निवर्तिताः = युद्धस्थलादन्यत्र नीताः अश्वाः = तुरगाः यस्ते तान् निवर्तिताश्वान्, यच्छन्ति = गमयन्ति अश्वानिति यन्तारस्तान् यन्तन् = सारथीन् उपालभ्य अधिक्षिप्य न त्वया सम्यक्कृतमिति रूपेणेत्यर्थः, पूर्व यैः = भटैः सादिता: = हताः, चाय्यन्ते परिज्ञायन्ते लक्ष्यन्ते, एभिरिति केतवः । पूर्वं दृष्टा: पूर्वदृष्टा: पूर्वदृष्टाश्च ते केतवः इति पूर्वकेतवः लक्षिताः ज्ञाताः पूर्वकेतवः = पूर्वध्वजाः येषान्ते तान् लक्षितपूर्वकेतून् तानेव = भटान् अमर्षण सहिताः सामर्षाः, तेषां भावः सामर्षता तया सामर्षतया =सकोपतया निजघ्नुः = निघ्नन्ति स्म ।
समासः-प्रहारेण या मूर्छा प्रहारमूर्छा तस्याः अपगमस्तस्मिन् प्रहारम पगमे, रथे तिष्ठन्ति ते रथस्थाः, निवर्तिताः अश्वा: यस्ते तान् निवतिताश्वान्, पूर्वं लक्षिताः लक्षितपूर्वाः केतवः येषां ते तान् लक्षितपूर्वकेतून, अमर्षेण सह वर्तमानाः सामर्षास्तेषां भावस्तत्ता तया सामर्षतया ।
हिन्दी--मूर्छा के दूर होने पर ( छूटने पर ) चोट लगने से मूछित हुए योद्धाओं को सुरक्षित स्थान में ले जाने वाले सारथियों को 'तुमने ठीक नहीं किया' ऐसे फटकार कर रथ में बैठने वाले योद्धाओं ने, पहले देखी ध्वजा से पहचान कर उन्हीं के ऊपर क्रुद्ध होकर प्रहार किया, जिन्होंने उनको मूछित किया था ॥४४।।
अप्यर्धमार्गे परबाणलूना धनुर्भतां हस्तवतां पृषत्काः । संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभार्गः फलिभिः शरव्यम् ॥४५।।
संजी०-अपीति। अर्धश्चासौ मार्गश्च तस्मिन्नर्धमार्गे परेषां बाणैलनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भूतां पृषत्काः शराः आत्मजवानुवृत्त्या स्ववेगानु