________________
सप्तमः सर्गः
१२१
शरीर से निकाला खून का प्रवाह (खून की धारा ) प्रातःकाल के सूर्य की लाली जैसा हो गया || ४२॥
स च्छिन्नमूलः क्षतजेन रेणुस्नस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥४३॥
संजी० - स इति । क्षतजेन रुधिरेण छिन्नमूल: त्याजितभूतलसंबन्ध इत्यर्थः । तस्य क्षतजस्योपरिष्टात् पवनावधूतो वाताहतः स रेणुः । अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव । आबभासे दिदीपे ||४३||
अन्वयः -- क्षतजेन छिन्नमूलः तस्य उपरिष्टात् पवनावधूतः स रेणु:,, अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितः धूमः इव आबभासे ।
व्याख्या-क्षतात् जातम् क्षतजम्, क्षतजेन = रुधिरेण छिन्नं = कृत्तम्, वियोजितम् मूलं = पृथिवीतलसम्बन्धो यस्य स छिन्नमूलः, तस्य = रुधिरस्य उपरिष्टात् = ऊर्ध्वभागे पुनातीति पवनस्तेन पवनेन = वायुना अवधूतः कम्पितः = आहतः इत्यर्थः पवनावधूतः सः = रेणुः = धूलि:, अंगार एव शेषः यस्य सोंगारशेषः तस्य अंगारशेषस्य = उल्कावशिष्टस्य हुतमश्नातीति हुताशनस्तस्य हुताशनस्य = वह्नेः पूर्वं : प्रथमम् उत्थितः = उद्गतः इति पूर्वोत्थितः धूमः इव = यथा आबभासे = दिदीपे | रेणुः धूमवत् जातः ।
=
समासः --क्षतात् जातं तेन क्षतजेन । छिन्नं मूलं यस्य स छिन्नमूलः । पवनेन अवधूत इति पवनावधूतः । हुतमश्नातीति हुताशनस्तस्य हुताशनस्य । अंगार एव शेषः यस्य सोऽङ्गारशेषस्तस्य अङ्गारशेषस्य । पूर्वमुत्थितः पूर्वोत्थितः । हिन्दी -- खून से पृथिवी में दबी हुई, और ऊपर में वायु से उड़ाई गई धूली उस धूवें के जैसी लग रही थी, जो धूवाँ तो पहले उठकर आकाश में हो, नीचे अंगार ही बचे हैं। अर्थात् जमीन खून से लाल अंगारे के समान और आकाश में धूल धूवें के समान प्रतीत हो रही थी || ४३ ॥ प्रहारमूर्च्छापगमे रथस्था यन्तनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतु स्तानेव सामर्षतया निजघ्नुः ||४४ || संजी० - प्रहारेति । रथस्था रथिन: प्रहारेण या मूर्च्छा तस्या अपगमे सति । मूच्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा । निवर्तिताश्वान्यन्तृन्