________________
सप्तमः सर्गः
११९
हिन्दी-वायु के कारण, खुले हुए मुखों से, खूब बढ़ी हुई सेना की धूल को पीते हुए मछली के आकार वाले झण्डे ऐसे दीख रहे थे मानों वर्षा के गदले नये जल को पीते हुए असली मत्स्य हों। अर्थात् धूली उड़कर जब मीनाकार पताका के वायु से खुले मुख में गई तो ऐसा प्रतीत हो रहा था मानो सच्ची मछलियाँ वर्षा के गदले जल को पी रही हैं ॥४०॥
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः। . स्वभर्तृ नामग्रहणाद् बभूव सान्द्रे रजस्यात्मपरावबोधः ॥४१॥
संजी०-रथ इति । सान्द्रे प्रवड़े रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः । नागो हस्ती विलोलानां घण्टानां क्वणितेन नादेन विजज्ञे । आत्मपरावबोध: स्वपरविवेकः । योधानामिति शेषः, स्वभर्तृणां स्वस्वामिनां नामग्रहणान्नामोच्चारणाद् बभूव । रजोऽन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजह्ररित्यर्थः ॥४१॥
अन्वयः-सान्द्रे रजसि रथः रथांगध्वनिना विजज्ञ, नाग: विलोलघण्टाक्वणितेन विजज्ञे, आत्मपरावबोधः स्वभmनामग्रहणात् बभूव ।
व्याख्या—सान्द्रे-प्रवृद्धे= घनीभूते इत्यर्थः रजसि = धूलौ रमन्ते जनाः अनेन स रथः = स्यन्द: रथाङ्गानां = चक्राणां ध्वनिः शब्दस्तेन रथांगध्वनिना विजज्ञे विज्ञातः। न अगः नागः, नगे भवो वा नागः = हस्ती, विलोलानां = चञ्चलानां घण्टानां क्वणितं नादस्तेन विलोलघण्टाक्वणितेन विजज्ञे ज्ञातः । आत्मानः स्वाः परे शत्रवः, इति आत्मपरास्तेषाम् अवबोधः विवेकः, भेदज्ञानमित्यर्थ, इति आत्मपरावबोधः, स्वस्य भर्ता स्वभर्ता स्वभर्तुः स्वस्वामिनः नाम्नः वाचकशब्दस्य ग्रहणम् = उच्चारणं तस्मात् स्वभर्तृ नामग्रहणात् बभूव जातः । रजोन्धकारे दृष्टेः प्रसाराभावात् सर्वे भटाः स्वं परं च शब्दादेव निश्चित्य घ्नन्तिस्म इति भावः ।
समास:-रथस्याङ्गानि रथांगानि, रथांगानां ध्वनिः, तेन रथांगध्वनिना। विलोलाश्च ता घण्टास्तासां क्वणितं तेन विलोलघण्टाक्वणितेन, आत्मानः परे च ते आत्मपरास्तेषाम् अवबोधः, इति आत्मपरावबोधः । स्वस्य भर्ता तस्य नामग्रहणं तस्मात् स्वभत नामग्रहणात् ।