________________
रघुवंशमहाकाव्ये
समास:- स्यन्दनानां वंशास्तेषां चक्राणि तैः स्यन्दनवंशचत्रैः । न सान्द्रः असान्द्रः, असान्द्रः सान्द्रः संपद्यमानः कृत इति - सान्द्रीकृतः । कुञ्जराणां कर्णाः कुञ्जरकर्णास्तेषां तालानि तै: कुञ्जरकर्णतालैः ।
११८
हिन्दी - घोड़ों की टापों से उठी हुई और रथों के पहियों से घनी की ( खूब बढ़ाई गई, तथा हाथियों के कानों के हिलाने ( फड़फड़ाने ) से फैलाई गई धूली ने अंशुक की परिपाटी से सूर्य को ढँक लिया । अर्थात् वहाँ धूल इस प्रकार फैल गई मानो (नेत्रक्रम) कपड़े से सूर्य को ढँक लिया हो ।। ३९ ॥
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखः प्रवृद्धध्वजिनी रजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ ४० ॥ संजी० - मत्स्येति । वायुवशाद्विदीर्णे विवृतैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणून् पिबन्तो गृह्णन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः पर्याविलानि परितः कलुषानि नवोदकानि पिबन्तः परमार्थमत्स्याः सत्यमत्स्या इव । बभुर्भान्ति स्म ॥ ४० ॥
अन्वयः - वायुवशात् विदीर्णः मुखैः प्रवृद्धध्वजिनीरजांसि पिबन्तः मत्स्यध्वजाः पर्याविलानि नवोदकानि पिबन्तः परमार्थमत्स्या इव बभुः ।
व्याख्या -- वायोः = पवनस्य वशात् = कारणात् विदीर्णैः = विवृतैः यात्तैरित्यर्थः मुखैः आननैः, ध्वजोऽस्त्यस्याः साध्वजिनी ध्वजिन्याः : सेनायाः रजांसि = धूलयः इति ध्वजिनीरजांसि प्रकर्षेण वृद्धानि = वृद्धि गतानि यानि ध्वजिजांसि तानि प्रवृद्धध्वजिनीरजांसि पिबन्तः = गृह्णन्तः मत्स्याकाराः = मीनाकाराः ध्वजाः पताका: इति मत्स्यध्वजाः, पर्याविलानि=परितः = सर्वतः आविलानि = कलुषाणि इति पर्याविलानि, नवानि = नूतनानि उदकानि जलानीति नवोदकानि पिबन्तः परमार्थाः = सत्याश्च ते मत्स्याः = मीनाः इति परमार्थमत्स्याः इव = यथा बभुः = भान्ति स्म ज्ञायन्ते स्मेत्यर्थः ॥
समासः -- वायोः वशस्तस्मात् । ध्वजिन्या: रजांसि ध्वजिनीरजांसि, प्रवृद्धानि च तानि ध्वजिनी रजांसि प्रवृद्धध्वजिनीरजांसि तानि । मत्स्याकाराः ध्वजा: इति मत्स्यध्वजा:, परितः आविलानीति पर्याविलानि । नवानि च तानि उदकानीति नवोदकानि तानि । परमार्थाश्च ते मत्स्या इति परमार्थमत्स्याः, परमश्चासौ अर्थ:, तेन परमार्थेन मत्स्या वा ।
=
=
+