________________
रघुवंशमहाकाव्ये समासः-अर्धम् अञ्चितं यस्याः सा अर्धम् अञ्चिता वा अर्धाञ्चिता, अंगुष्ठस्य मूलं तस्मिन् अर्पितं सूत्रमेव शेषं यस्याः सा तथोक्ता।
हिन्दी-एक स्त्री बैठकर अपनी मणियों की तगड़ी गूंथ रही थी, उसका एक किनारा अपने पैर के अंगठे में बाँध रखा था, अभी आधी ही पिरो पाई थी कि सहसा उठकर अज को देखने दौड़ पड़ी-उसी का वर्णन है। झटपट उठ खड़ी हुई एक स्त्री की आधी गूंथी हुई अत एव शीघ्रतापूर्वक रखे पद पद पर जिसके मोती गिर गए, ऐसी मेखला झरोखे तक पहुँचते-पहुँचते पैर के अंगूठे में केवल डोरा ही रह गया । अर्थात् मणि सब इधर उधर बिखर गए ॥१०॥
तासां मुखैरासवगन्धगर्भाप्तान्तराः सान्द्र कुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ।।११।।
संजी०–तासामिति । तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भे येषां तैः । विलोलानि नेत्राण्येव भ्रमरा येषां तः मुखैाप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इव कमलालंकृता इव 'सहस्रपत्रं कमलम्' इत्यमरः। आसन् ॥११॥
अन्वयः-तदानीम् सान्द्रकुतूहलानाम् तासाम् आसवगन्धगर्भः विलोलनेत्रभ्रमरैः मुखैः व्याप्तान्तराः गवाक्षाः सहस्रपत्राभरणाः इव आसन् ।
व्याख्या-तदानीम् =अजस्यावलोकनांवसरे सान्द्रं धनमत्यधिकम् कुतूहलं= कौतुकं यासां ताः, तासां सान्द्रकुतूहलानाम्, तासां स्त्रीणाम् आसवस्य = मद्यस्य गन्धः सौरभम् गर्भे मध्ये अभ्यन्तरे येषां तानि तैः आसवगन्धगभैः, विलोलानि= चञ्चलानि नेत्राणि = चक्षू षि एव भ्रमराः = मधुकराः येषां तानि तैः विलोलनेत्रभ्रमरैः, मुखैः = आननैः व्याप्तम् छन्नम् अन्तरं मध्यं येषां ते व्याप्तान्तराः गवां किरणानामक्षीणीवेति गवाक्षाः = वातायनानि सहस्रं पत्राणि येषां तानि सहस्रपत्राणि, सहस्रपत्राणि = कमलानि आभरणं = अलंकारः येषां ते सहस्रपत्राभरणा इव = यथा आसन् = अभूवन् गवाक्षाः स्त्रीणां मुखैः कमलालंकृता इव जाता इति भावः।
समास:-सान्द्रं कुतूहलं यासां ताः सान्द्रकुतूहलास्तासां सान्द्रकुतूहलानाम्, आसवस्य गन्धः गर्भे येषां तानि आसवगन्धगर्भाणि तैः आसवगन्धगर्भे, विलोलानि नेत्राणि एव भ्रमराः येषां तानि विलोलनेत्रभ्रमराणि, तै: विलोलनेत्रभ्रमरैः, सहस्रं