________________
सप्तमः सर्गः
भिन्ना=मुक्ता तां प्रस्थानभिन्नां नीवीं = शाटिकाग्रंथि न = नैव बबन्ध = बन्धयामास, न यन्त्रितवतीत्यर्थ:, किन्तु आभरणानाम् = कङ्कणाद्यलंकाराणां प्रभा= कान्तिरिति, आभरणप्रभा, नाभौ = उदरविवरे प्रविष्टा = गता आभरणप्रभा यस्य तेन नाभिप्रविष्टाभरणप्रभेण हस्तेन = करेण वासः वस्त्रं शाटिकामित्यर्थः, अवलम्ब्य = गृहीत्वा तस्थौ= स्थिता।
समासः-जालस्य अन्तरे प्रेषिता दृष्टि: यया सा जालान्तरप्रेषितदृष्टि:, प्रस्थानेन भिन्ना तां प्रस्थानभिन्नाम्, नाभौ प्रविष्टानामाभरणानां प्रभा यस्य सः तेन नाभिप्रविष्टाभरणप्रभेण ।
हिन्दी-साड़ी पहनती हुई की दशा का वर्णन । एक और तरुणी झरोखे में आंख लगाये खड़ी थी, वह दौड़कर चलने से खुली हुई नीवी (साड़ी की गाँठ को बाँध न सकी-किन्तु उस हाथ से साड़ी को पकड़ कर खड़ी हो गई, जिसके आभूषणों की कान्ति उसकी नाभि में पड़ रही थी। अर्थात् वस्त्र के खिसकने पर भी आभूषणों की प्रभा ही नाभि का आभूषण हो गई ॥९॥
अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती। कस्याश्चिदासीद्रशना तदानीमङ्गष्ठमूलार्पितसूत्रशेषा ॥१०॥
संजी०-अर्धति । सत्वरमुत्थितायाः कस्याश्चिदर्धाञ्चिता मणिभिरर्धगुम्फिता दुनिमिते संभ्रमादुत्क्षिप्ते । 'डुमिप्रक्षेपणे' इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम्। वीप्सायां द्विर्भावः । गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽपितं सूत्रमेव शेषो यस्याः सा । आसीत् ॥१०॥
अन्वयः-सत्वरम् उत्थितायाः कस्याश्चित् अर्धाञ्चिता दुर्निमिते पदे पदे गलन्ती (सती) रशना तदानीम् अंगुष्ठमूलापितसूत्रशेषा आसीत् । ___ व्याख्या-सत्वरम् = शीघ्रम्, उत्थितायाः उच्चलितायाः कस्याश्चित् = वनितायाः अर्धम् =अर्धभागम् अञ्चितं = मणिभि : गुम्फितं यस्याः सा अर्धाञ्चिता दुनिमिते सम्भ्रमादुत्क्षिप्तेपदे पदे = प्रतिपदम् गलन्ती = पतद्रत्ना सती रशना = मेखला तदानीं गमनसमये अंगुष्ठस्य मूलम्, अंगुष्ठमूलम् अंगुष्ठमूले = पादांगुष्ठमूले अर्पितं = बद्धं सूत्रमेव = तन्तुरेव शेषं = अवशिष्टं यस्याः सा अंगुष्ठमूलार्पितसूत्रशेषा आसीत् = अभूत् ।