________________
षष्ठः सर्गः
८१
समासः- स्वयं (कन्या) वणोति ( पति ) यस्मिन स स्वयंवरस्तस्मिन स्वयंवरे। समाः गुणाः ययोस्तौ समगुणौ, समगुणयोः योगः, तेन प्रीतिः येषान्ते समगुणयोगप्रीतयः । पुरे भवा: पौराः । मेधैः मुक्तः मेघमुक्तस्तं मेघमुक्तम् । को मोदते इति कुमुद: कुमुदस्येयं कौमुदी। जलानां निधिस्तं जलनिधिम् । जह्नोः . कन्या जह्नकन्या । श्रवणयोः कटु, श्रवणकटु तत् । एकं च तत् वाक्यमिति, तत् एकवाक्यम् ।
हिन्दी-उस स्वयंवर में एक समान शील स्वभाव सौन्दर्य गुणवाले अज और इन्दुमती के सम्बन्ध से प्रसन्न हुए नगरनिवासी जन राजाओं के कानों को कठोर लगने वाला एक ही वाक्य कहने लगे कि यह इन्दुमती अज से वैसे ही मिल गई जैसे बादलों से रहित चन्द्र की चाँदनी और अपने अनुरूप सागर से गंगा मिलती हैं ।।८५॥
प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् । उषसि सर इव प्रफुल्लपमं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥८६॥
संजी०--प्रमुदितेति । एकत एकत्र प्रमुदितो हृष्टो वरस्य जामातु: पक्षो वर्गो यस्य तत्तथोक्तम् । अन्यतोऽन्यत्र वितानं शून्यम् । भग्नाशत्वादप्रहृष्टमित्यर्थः । तत्क्षितिपतिमण्डलम् । उषसि प्रफुल्लपमं कुमुदवनेन प्रतिपन्ननिद्रं प्राप्तनिमीलनं सर इव सरस्तुल्यम् आसीत्। पुष्पिताग्रावृत्तमेतत् ।। ८६॥
अन्वयः-एकतः प्रमुदितवरपक्षम् अन्यतः वितानं तत्क्षितिपतिमण्डलम्, उपसि प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रं सरः इव आसीत् ।
व्याख्या-एकस्मिन्निति । एकतः = एकत्र प्रकर्षेण मुदितः = हृष्ट: वरस्य = जामातुः = अजस्य पक्षः = समूहः यस्य तत् प्रमुदितवरपक्षम्, अन्यस्मिन्निति अन्यतः = अन्यत्र वितानं = शून्यम् = अप्रसन्नम् भग्नमनोरथत्वादित्यर्थः, तेषां = भग्नमनोरथानां क्षितिपतीनां = भूपालानां मण्डलम् =समूहः तत् क्षितिपतिमण्डलम्, उषसि =प्रभाते प्रफुल्लं = विकसितं पद्मं = कमलं यस्य तत् प्रफुल्लपञ कुमुदानां = श्वेतकमलानां रात्रिविकासिनां वनं = समूहः कुमुदवनं, तेन प्रतिपन्ना = प्राप्ता निद्रा= निमीलनं यस्य तत् कुमुदवनप्रतिपन्न निद्रम् सरः= तडागः इव = यथा आसीत् अभूत् ।
समास:--एकस्मिन्निति एकतः। प्रकर्षण मुदित: वरस्य पक्षः यस्य