________________
८०
रघुवंशमहाकाव्ये से) अपने को ऐसा मान लिया, मानो विदर्भ देश के राजा की छोटी बहन इन्दुमती ने कण्ठ में बाहुपाश ही डाल दिया हो। अर्थात्-माला क्या पहना दी है, मानो गले में भुजाएँ डालकर आलिंगन ही इन्दुमती कर रही है ॥ ८४ ॥ शशिनमुपगतेयं कौमुदी मेघमुक्तं
जलनिधिमनुरूपं जकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौरा'
श्रवणकटु नृपाणामेकवाक्यं विवः ॥८५॥ संजी०-शशिनमिति । स्वयंवरे समगुणयोस्तुल्यगुणयोरिन्दुमती-रघुनन्दनयोोगेन प्रीतिर्येषां ते समगुणयोगप्रीतयः पौराः पुरे भवा जनाः इयमजसंगतेन्दुमती मेघेर्मुक्तं शशिनं शरच्चन्द्रमुपगता कौमुदी। अनुरूपं सदृशं जलनिधिमवतीर्णा प्रविष्टा जलकन्या भागीरथी। तत्सदृशीत्यर्थः । इत्येवं नृपाणां श्रवणयोः कटु परुषमेकमविसंवादि वाक्यमेकवाक्यं विवः । मालिनीवृत्तम् ।।।८५।।
अन्वयः-तत्र समगुणयोगप्रीतयः पौरा: इयं मेघमुक्तं शशिनम् उपगता कौमुदी अनुरूपं जलनिधिम् अवतीर्णा जलकन्या इति नृपाणां श्रवणकटु एकवाक्यं विवः । ___ व्याख्या-तत्र=स्वयंवरे तुल्याः गुणाः शीलसौन्दर्यादयः ययोस्तौ समगुणौ तयोः समगुणयोः इन्दुमतीरघुपुत्रयोः योगः सम्बन्धः, तेन प्रीतिः प्रसन्नता येषान्ते समगुणयोगप्रीतयः,पुरे भवाः पौरा:=नागरिकजनाः,इयम् =अजसंगता इन्दुमती मेघैः= घनैः मुक्तः त्यक्तस्तं मेघमुक्तम् शशिनं शरच्चन्द्रम् उपगता संगता कौ पृथिव्यां मोदते इति कुमुदः कुमुदस्य इयं कौमुदी ज्योत्स्ना । अनुरूपम् स्वसदृशं जलानाम् = अपां निधिः आकरः तं जलनिधि समुद्रम् अवतीर्णा-प्रविष्टा मिलिता, जह्नोः कन्या जङ्गकन्या भागीरथी गङ्गा। कौमुदीसदृशी, गंगासदृशी चेन्दुमतीत्यर्थः । इति=इत्थम् नृपाणां भूपालानाम् इन्दुमतीस्वयंवरे समागतानां राज्ञामित्यर्थः श्रवणयोः कर्णयोः कटु-परुषम्, श्रवणकटु एकं च तत् वाक्यमिति, एकवाक्यम् = अविरोधिवचनम् विवः कथितवन्तः । सर्वैः पौरजनैः एकस्वरेण प्रशंसितोऽयं संबन्ध इत्यर्थः ।