________________
७५
षष्ठः सर्गः कुलेन कान्त्या वयसा नवेन गुणश्च तैस्तविनयप्रधानः । त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥७९॥
संजो 0--कुलेनेति । कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मनस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व । किं बहुना, रत्नं काञ्चनेन समागच्छतु संगच्छताम् । प्रार्थनायां लोट् । रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वाधुवयोः समागमः प्रार्थ्यत इत्यर्थः ।। ७९ ॥
अन्वय:--कुलेन कान्त्या नवेन वयसा, विनयप्रधानः तैः तः गणे: आत्मनः तुल्यम् अमुम त्वं वृणीष्व, रत्नं कांचनेन समागच्छतु।
व्याख्या--कुलेन = वंशेन, कान्त्या लावण्येन, नवेन = नूतनेन, वयसा= यौवनेन, विनयः=नम्रता, प्रधानं = मुख्यं, येषां ते ते: विनयप्रधानः तैस्तै:=प्रसिद्धैः, गुणैः = श्रुतशीलादिभिः, आत्मनः = स्वस्य इन्दुमत्याः, तुल्यम् = अनुरूपम्, अमुम् = अजम्, त्वम् = इन्दुमती, वृणीष्व स्वीकुरु, किं बहूक्तेन । रत्नं = हीरकादि, काञ्चनेन=सुवर्णेन, समागच्छतु =संगच्छताम् ।
समासः--विनयः प्रधानं येषां ते तैः विनयप्रधानैः ।
हिन्दी-कुल से सौन्दर्य से नई जवानी से तथा नम्रता है प्रधान जिन्हों में ऐसे उन उन प्रसिद्ध श्रुतशील दया चतुरता आदि गुणों से यह कुमार तुम्हारे अनुरूप है। अतः तुम इनका वरण कर लो। अधिक क्या कहूँ, रत्न सुवर्ण का समागम हो जाये । अर्थात् जैसे रत्न की शोभा सुवर्ण के साथ से अधिक होती है वैसे ही तुम्हारा और अज का मेल अत्यन्त अनुरूप होगा ॥ ७९ ।।
ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या। दृष्टया प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥८०॥
संजी०--तत इति । ततः सुनन्दावचनस्यावसानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जां तनूकृत्य संकोच्य प्रसादेन मनःप्रसादेनामलया प्रसन्नया दृष्टया संवरणस्य स्रजा स्वयंवरणार्थं स्रजेव कुमारमजं प्रत्यग्रहीत् स्वीचकार । सम्यक्सानुरागमपश्यदित्यर्थः ॥८॥
अन्वयः--ततः सुनन्दावचनावसाने नरेन्द्र कन्या लज्जां तनूकृत्य, प्रसादामलया दृष्टया संवरणस्र जा इव कुमारं प्रत्यग्रहीत् ।