________________
७४
रघुवंशमहाकाव्ये तथा भूत, भविष्यत्, वर्तमान तीनों कालों में भी व्याप्त है ऐसे सर्वत्र फैले हुए जिस रघु के यश को इतना है यह कहना सामर्थ्य के बाहर है ॥ ७७ ॥
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पति जयन्तः। गुर्वी धुरं यो भुवनस्य पित्रा धुयेंण दम्यः सदृशं बिभति ।। ७८॥
संजी.--असाविति । असावजाख्यः कुमारः। त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव । 'जयन्तः पाकशासनिः इत्यमरः । तं रघुमनुजातः । तस्माज्जात इत्यर्थः । तज्जातोऽपि तदनुजातो भवति, जन्यजनकयोरानन्तर्यात् । 'गत्यर्थाकर्मकश्लिषशीस्थासवजनरुहजीर्य तिभ्यश्च' (पा. ३।४।७२) इति क्तः। सोपसृष्टत्वात्सकर्मकत्वम् । आह चात्रैव सूत्रे वृत्तिकार:-'श्लिषादयः सोपसष्टाः सकर्मका भवन्ति' इति। दम्यः शिक्षणीयावस्थः । योऽजो गुर्वी भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिति । यथा कश्चिद्वत्सतरोऽपि धुर्येण महोक्षेण समं वहतीत्युपमालंकारो ध्वन्यते । 'दम्यवत्सतरौ समौ' इत्यमरः ॥७८॥
अन्वयः-असौ कुमारः त्रिविष्टपस्य पति जयन्त इव तम अनुजातः । दम्यः यः गुरू भुवनस्य धुरं धुर्येग पित्रा सदृशं बिभर्ति ।
व्याख्या-असौ=अजनामा कुमारः = युवराजः त्रयाणां विप्टपानां समाहारस्त्रिविष्टपम्, त्रिविष्टपस्य = स्वर्गस्य, पति = स्वामिनमिन्द्रं, जयन्तः = पाकशासनिः, इव = यथा, तं = रघुम्, अनुजातः= उत्पन्नः, तस्मात् रघोः जात इत्यर्थः । दम्यः = वत्सतरः = शिक्षणीयावस्थ इति यावत् । य: अजः, गुर्वी = गुरुतरां, भुवनस्य लोकस्य, धुरं = भारं धुर्येण = धुरन्धरेण चिररूढेन, पित्रा = जनकेन, सदृशं = तुल्यं यथा तथा बिभर्ति =धारयति । यथा कश्चित अल्पवयस्को वत्सः महोक्षेण बलीवर्दैन समं धुरं वहति, तथाजोऽपि कुमार एव पित्रा समं प्रजापालनरूपं भुभारं वहतीत्यर्थः । ___समासः-त्रयाणां विष्टपानां समाहारस्त्रिविष्टपं तस्य त्रिविष्टपस्य ।
हिन्दी-यह अज नाम का युवराज, स्वर्गलोक के स्वामी इन्द्र के पुत्र जयन्त के समान, रघु से उत्पन्न हुआ है। जो अज कुमारावस्था में ही गुरुतर राज्य भार को प्रतापी बलवान् पिता के बराबर वैसे ही वहन करता है जैसे बछड़ा बड़े बैल के बराबर धुरे को वहन करता हो ॥७८॥