________________
रघुवंशमहाकाव्ये
तदेकसंस्थम् उभयमिह संगतमित्यर्थः । हे कल्याणि ! 'बह्वादिभ्यश्च' इति ङीप् । कान्त्या सूनृता सत्यप्रियया गिरा च योग्या संसर्गार्हा त्वमेव तयोः श्रीसरस्वत्योतृतीया । समानगुणयोर्युवयोर्दाम्पत्यं युज्यत एवेति भावः । दक्षिणनायकत्वं चास्य ध्वन्यते । तदुक्तम् — 'तुल्योऽनेकत्र दक्षिण:' इति ॥ २९ ॥
अन्वयः -- निसर्गभिनास्पदम् श्रीश्च सरस्वती च इति द्वयम् अस्मिन् एकसंस्थम्, हे कल्याणि कान्त्या सूनुतया गिरा च योग्या त्वमेव तयोः तृतीया ।
व्याख्या - निसर्गात् = स्वभावात्, मिन्नम् = अन्यत् आस्पदम् = आश्रयः यस्य तत् निसर्ग भिन्नास्पदम्, श्रीश्च = लक्ष्मीश्च, सरस्वती = वाग्देवी च इति द्वयम् = द्वितयम् अस्मिन् = अंगनाथे, एकस्मिन् = एकत्र, संस्था = स्थितिः यस्य तत् एकसंस्थम्, अंगनाथे द्वयमपि संमिलितं वर्तते इति भावः । हे कल्याणि ! = हे भद्रे !, कान्त्या = शोभया, सूनृतया = सत्यप्रियया, गिरा = वाण्या, योग्या = अनुरूपा संबन्धार्हा, त्वमेव इन्दुमती एव, तयोः = श्रीसरस्वत्योः, तृतीया 113 त्रित्वसंख्यापूरिका तयोः सदृशी
समास: - निसर्गात् भिन्नम् आस्पदं यस्य तत् निसर्गभिन्नास्पदम्, एकस्मिन् संस्था यस्य तत् एकसंस्थम् ।
हिन्दी- - स्वभाव से ही भिन्न-भिन्न आश्रय में रहने वाली लक्ष्मी और सरस्वती, इस अंगदेश के राजा के पास एक साथ मिलकर रहती हैं । अर्थात् ये विद्वान् भी हैं और लक्ष्मीवान् भी | अतः हे कल्याणि ! सौन्दर्य से तथा मधुरभाषिणी होने से तुम ही इन दोनों के साथ तीसरी वन जाओ । अर्थात् समान गुणवाले तुम दोनों का विवाह ठीक सुखदायक रहेगा ।। २९ ।। अथाङ्गराजादवतार्य चक्षुर्याहीति कन्यामवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टु नसा भिन्नरुचिहि लोकः ॥ ३०
संजी० - अथेति । अथ कुमार्याङ्गराजाच्चक्षुरवतार्य, अपनीयेत्यर्थः । जन्यां मातृसखीम् । 'जन्या मातृसखीमुदो:' इति विश्वः । सुनन्दां याहि गच्छेत्यवदत् । 'यातेति जन्यामवदत्' इति पाठे जनीं वधू वहन्तीति जन्या वधूवन्धवः । तान् यात गच्छतेत्यवदत् । ‘जन्यो वरवधूज्ञातिप्रिय तुल्य हितेऽपि च' इति विश्वः । अथवा जन्या वधूभृत्या: 'भृत्यश्चापि नवोढाया:' इति केशवः । 'संज्ञायां जन्या -' इति यत्प्रत्ययान्तो
२८