________________
रघुवंशमहाकाव्ये किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरगामिनमकामयन्ताप्सरस इति प्रसिद्धिः । किञ्च सूत्रकारैर्गजशास्त्रकृद्भिः पालकादिभिर्महर्षिभिविनीतनागः शिक्षितगजः । किलेत्यै तिह्ये । अत एव भूमिगतोऽप्यन्द्रं पदमैश्वर्यं भुङक्ते, भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः । गजाप्सरोदेवर्षिसेव्यत्वमैन्द्रपदशब्दार्थः । पुरा किल कुतश्चिच्छापकारणाद् भुवमवतीर्णं दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयाऽऽनीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृत्य भुवि सम्प्रदायं प्रावर्तयदिति कथा गीयते ।। २७ ।।
अन्वयः-एनाम् जगाद च अयम् अंगनाथः सुरांगनाप्रार्थितयौवनश्री:सूत्रकारः विनीतनागः किल, अत: एव भूमिगतः अपि ऐन्द्रम् पदम् भुङक्ते।
व्याख्या--सुनन्दा एनाम् = इन्दुमतीम्, जगाद = उवाच, अयम् = पूरोवर्ती राजा अंगानाम् = अंगजनपदानाम् नाथः = स्वामी, यौवनस्य श्रीरिति यौवनश्रीः सुराणाम् = देवानाम् अंगनाः=अप्सरस:, तामिः प्रार्थिता = याचिता कामिता यौवनश्री:= तारुण्यसौन्दर्य यस्य सः सुरांगनाप्रार्थितयौवनश्रीः, सूत्राणि कृतवन्तस्ते सूत्रकारास्तैः सूत्रकारः = गजशास्त्रकारैः, विनीताः शिक्षिताः, नागाः = गजा: यस्य स विनीतनागः, किल इति ऐतिह्ये, अत एव, भूमौ पृथिव्याम्, गतः = प्राप्तः, इति भूमिगतः अपि इन्द्रस्य इदमिति ऐन्द्रम् = इन्द्रसम्बन्धि पदम् = ऐश्वर्यम् भुङ्क्ते = अनुभवति ।
समास:--अंगानाम् नाथ : अंगनाथ :, सुराणाम् अंगना: सुरांगना: तामिः प्रार्थिता यौवनस्य श्री: यस्य सः सुरांगनाप्रार्थितयौवनश्री:, विनीता : नागाः यस्य स: विनीतनागः, सूत्राणि कुर्वन्तीति सूत्रकारास्तैः सूत्रकारैः, इन्द्रस्येदमिति ऐन्द्रम्, तत्, भूमौ गतः भूमिगतः।
हिन्दी-और सुनन्दा इस इन्दुमती से बोली कि यह अंगदेश का राजा है। देवताओं की स्त्रियाँ भी इनकी जवानी के सौन्दर्य की कामना करती हैं और गजशास्त्र के निर्माता विद्वान् इनके हाथियों को शिक्षा देते हैं ऐसा इतिहास है। इसीलिए पृथ्वी में रहकर भी ये इन्द्र के स्वर्गीय ऐश्वर्य का भोग करते हैं ॥ २७ ॥
अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः॥२८॥