________________
षष्ठः सर्गः
१७
विभ्रमदन्तपत्रम्, आपाण्डुरम् = किञ्चिद्धवलम्, केतकस्य - केतक्याः, बर्हम् = दलम्, प्रियाया: = स्वभार्यायाः, नितम्बः = कटिपश्चाद्भागः, इति प्रियानितम्बस्तस्मिन् उचितः = अभ्यस्तः, संनिवेशः = निक्षेपणम् येषान्तानि प्रियानितम्बोचितसंनिवेशानि तैस्तथोक्तैः, नखानाम् = कररुहाणाम्, अग्राणि = अग्रभागाः, तैः, नखाग्रैः, यामास = विदारयामास ।
विपाट
समास: -- विलासिन्याः विभ्रमार्थं दन्तपत्रमिति विलासिनीवि भ्रमदन्तपत्रं तत् । आसमन्तात् पाण्डुरमिति तत् आपाण्डुरम्, केतकस्य बर्हमिति केतक र्हम् तत्, नितरां तम्यते इति नितम्बः प्रियाया: नितम्बः प्रियानितम्बस्तत्र उचितः संनिवेशः येषान्तानि तैः प्रियानितम्बोचितसंनिवेशैः नखानाम् अग्राणि तैः नखाग्रैः । हिन्दी - - एक दूसरा जवान राजा, प्रिया के नितम्बों पर चिह्न बनाने में अभ्यस्त नखों से केवड़े के उन सुफेद पत्तों को नोचने लगा जो कि किसी विलासी स्त्री के श्रृंगार के लिए कान के आभूषण के समान कटे थे । मैं तुम्हारे नितम्ब पर इसी प्रकार नखचिह्न लगाऊँगा, यह अभिप्राय राजा का था । और इन्दुमती ने सोचा कि यह तो तिनके तोड़ने की तरह पत्ते को छेदने वाला कुलक्षणी है ॥ १७॥३ कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन । रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥ १८ ॥
--
संजी० - - कुशेशयेति । कश्चिद्राजा कुशेशयं शतपत्रमिवाता स्रं तलं यस्य तेन । 'शतपत्रं कुशेशयम्' इत्यमरः । रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण । अङगुलघु भवान्यङ्गुलीयान्यूर्मिकाः । 'अङगुलीयकमूर्मिका' इत्यमरः । 'जिह्वामूलाङगुलेश्छः' इति छप्रत्ययः । रत्नानामङ्गुलीयानि तेषां प्रभयानुविद्धान्व्याप्तानक्षान्पाशान् । ‘अक्षास्तु देवनाः पाशकाश्च ते' इत्यमर: । सलीलमुदारयामासोच्चि - क्षेप | अहं त्वया सहैवं रंस्य इति नृपाभिप्रायः । अक्षचातुर्येण कापुरुषोऽयमितीन्दुमत्यभिप्राय: । ' अक्षर्मा दीव्येत्, इति श्रुतिनिषेधात् ॥ १८ ॥
अन्वयः - कश्चिद् कुशेशयाता म्रतलेन, रेखाध्वजलाञ्छनेन करेण रत्नांगुलीयप्रभयानुविद्धान् अक्षान् सलीलम् उदीरयामास ।
व्याख्या -कश्चित्=अन्यो राजा, कुशेशयं = रक्तोत्पलमिव, आताम्रम् = आरक्तम्, तलम्==पाणितलम् यस्य स तेन कुशेशयाता म्रतलेन, रेखारूपो ध्वज इति रेखाध्वजः,