________________
रघुवंशमहाकाव्ये
अन्वयः -- कश्चित् (राजा) बामम् भुजम् आसनार्थे निवेश्य तत्सन्निवेशात् अधिकोनतांसः सन् विवृत्तत्रिकभित्रहारः सन्, सुहृत्समाभाषणतत्परैः अभूत् ।
उन्नतः
व्याख्या— कश्चित् = राजा, वामम् = दक्षिणेतरम्, भुजम् = बाहुम्, आसनस्य = सिंहासनस्य, अर्धम् = एकदेशस्तस्मिन् आसनार्थे निवेश्य = संस्थाप्य, तस्य = वामभुजस्य, संनिवेशः = स्थापनम् तस्मात् तत्संनिवेशात्, अधिकः = विशेषः, = उच्चः उत्थितः, अंसः = वामांसः यस्य सः, अधिकोन्नतांसः, सन् विवृत्तम् = परावृत्तम्, त्रिकम् = पृष्ठवंशाघरम्, इति विवृत्तत्रिकम् तत्र भिन्नः लुठित:, हारः = मणिमाला यस्य सः, विवृत्तत्रिकभिन्नहारः सन् सुहृदा = मित्रेण ( सह ) समाभाषणम् = आलापः, तत्र तत्परः = संलग्न: - प्रवृत्त इत्यर्थ:, इति सुहृत्समाभाषणतत्पर:, अभूत् = अभवत् जात इति यावत् ।
हिन्दी -- कोई राजा अपने बाएँ हाथ को सिंहासन के आधे भाग में रखकर बाईं ओर बैठे मित्र से वार्तालाप करने लगा । और बाएँ हाथ के वहाँ रखने से बायाँ कन्धा ऊँचा उठ गया, अतएव गले का हार घुमी हुई पीठ पर लटक गया । वामांग में बैठाकर तुम्हारे साथ इसी प्रकार प्रेमालाप किया करूँगा यह राजा का अभिप्राय था, किन्तु इन्दुमती ने जान लिया कि दूसरे को देखकर मुँह फेरने वाला यह तो कर्तव्यपराङमुख है ||१६||
१६
=
विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्ह मन्यः ।
प्रियानितम् बोचितसन्नि देशैर्विपाटयामास युवा नखाग्रैः ॥ १७ ॥ संजी० - विलासिनीति । अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थ दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतक र्ह केतकदलम् । 'दलेऽपि बर्हम्' इत्यमरः । प्रियानितम्ब उचितसन्निवेशैरभ्यस्तनिक्षेपणैर्नखाग्रैविपाटयामास विदारयामास । अहं तव नितम्ब एवं नखव्रणादीन्दास्यामीति नृपाशयः । तृणच्छेदकवत्पत्रपाटकोऽयमपलक्षणक इतीन्दुमत्याशयः ॥ १७ ॥
अन्वयः - अन्यः युवा विलासिनीविभ्रमदन्तपत्रम् आपाण्डुरम्, केतक बर्हम्, प्रियानितम्बोचितसंनिवेशैः नखायैः, विपाटयामास ॥१७॥
व्याख्या- अन्यः अपरः, युवा=तरुणः, विलासिन्याः प्रियायाः, विभ्रमार्थम् = विलासप्रयोजनकं, दन्तपत्रम् दन्तपत्रभूतम्, कर्णभूषणभूतमित्यन्ये, इति विलासिनी