________________
१३
षष्ठः सर्गः
अन्वयः - कश्चित् कराभ्याम् उपगूढनालम्, आलोलपत्राभिहतद्विरेफम्, रजोभिः अन्तः परिवेषबन्धि लीलारविन्दम् भ्रमयांचकार ॥
व्याख्या - कश्चित् राजा, कराभ्याम् = हस्ताभ्याम्, उपगूढम् = गृहीतम्, नालम् =कमलदण्डः यस्य तत् उपगूढनालम्, आलोलानि = चञ्चलानि, पत्राणि = : दलानि, इति आलोलपत्राणि, तैः अभिहताः = ताडिताः, द्विरेफा:= भ्रमरा: येन तत् आलोलपत्राभिहतद्विरेफम्, रजोभिः परागैः पुष्परेणुभिरित्यर्थः, अन्तः = मध्ये, परिवेषम् = मण्डलम्, बघ्नाति =विदधातीति परिवेषबन्धि, लीलाया: = क्रीडायाः, अरविन्दम् = कमलम्, इति लीलारविन्दम् भ्रमयांचकार = भ्रामयामास ।
समासः - उपगूढम् नालम् यस्य तत् उपगूढनालम्, आलोलानि च तानि पत्राणि, तैः अभिहताः द्विरेफाः येन तत् आलोलपत्राभिहतद्विरेफम्, अन्तः परिवेषं नातीति तत् अन्तःपरिवेषबन्धि, लीलायाः अरविन्दमिति तत् लीलारविन्दम् ।
हिन्दी - उन राजाओं की विविध चेष्टाओं को दिखाते हैं- कोई राजा दोनों हाथों से पकड़ा है डंठल जिसका और जिसने चंचल पत्तों से भौरों को मार भगाया है तथा जिसमें परागों से मण्डल बन्ध गया है ऐसे सुन्दर कमल को घुमाने लगा । हाथ के लीला कमल की तरह, मेरे साथ विवाह हो जाने पर मैं भी तुम्हारे इशारे पर नाचूंगा ऐसा अभिप्राय राजा का है। यह राजा हाथ हिलाने वाला कुलक्षण है, ऐसा इन्दुमती का अभिप्राय है ।। १३ ।।
विस्रस्तमसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् । प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृत चारुवक्त्रः || १४ ||
)
1
संजी० - विस्रस्तमिति । विलसनशीलो विलासी । 'वौ कषलसकत्थस्रम्भ:' इति घिनुण्प्रत्ययः । अपरो राजांसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य कोटिलग्नं प्रालम्बमृजुलम्बिनीं स्रजम् । 'प्रालम्बमृजुलम्बि स्यात्कण्ठात्' इत्यमरः । 'प्रावारम्' इति पाठे तूत्तरीयं वस्त्रम् । उत्कृष्योद्धृत्य साचीकृतं तिर्यक्कृतं चारु वक्त्रं यस्य स तथोक्तः सन् यथावकाशं स्वस्थानं निनाय । प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्य इति नृपाभिप्रायः । गोपनीयं किञ्चिदंगेऽस्ति ततोऽयं प्रावृणुत इन्दुमत्यभिप्राय: ॥ १४ ॥