________________
१२
रघुवंशमहाकाव्ये
तदुक्तम्-‘एकत्रैवानुरागश्चेत्तिर्यवशब्दगतोऽपि वा । योषितां बहुसक्तिश्चेद्रसा - भासस्त्रिधा मतः' इति ॥ १२ ॥
अन्वयः - ताम् प्रति अभिव्यक्तमनोरथानाम्, महीपतीनाम् प्रणयाग्रदूत्यः विविधाः शृंगारचेष्टाः, पादपानाम् प्रवालशोभा इव बभूवुः ॥ १२ ॥
व्याख्या ---ताम् == इन्दुमतीम्, प्रति = उद्दिश्येत्यर्थः, अभिव्यक्तः=प्ररूढः मनोरथः = अभिलाष:, येषां ते, तेषाम् अभिव्यक्तमनोरथानाम्, मह्या = पृथिव्या: पतय स्वामिनस्तेषाम्, महीपतीनाम् = राज्ञाम्, प्रणयेषु = प्रार्थनासु, प्रेमसु वा अग्रदूत्य: == प्रथमदूतिकाः, विविधाः = अनेकप्रकाराः, श्रृंगारस्य = रतेः इच्छाविशेषस्येत्यर्थः चेष्टाः == भ्रूविक्षेपस्मितादयो विकाराः पादैः पिबन्तीति पादपाः तेषाम् पादपानाम् == वृक्षाणाम्, प्रवालानाम् = पल्लवानाम्, शोभा : = सम्पदः, इति प्रवालशोभा : इव = यथा बभूवुः = उत्पन्नाः ।
समाम: - अभिव्यक्तः मनोरथ: येषान्ते तेषाम् अभिव्यक्तमनोरथानाम्, मह्या: पतयः इति महीपतयस्तेषाम् महीपतीनाम्, प्रणयेषु अग्रदूत्यः इति प्रणयाग्रदूत्यः, शृंगारस्य चेष्टा: श्रृंगारचेष्टाः पादैः पिबन्तीति पादपाः तेषां पादपानाम्, प्रवालानाम् शोभा : प्रवालशोभाः ।
हिन्दी - - इन्दुमति के प्रति अपना प्रेम प्रकट करने वाले राजाओं की, वृक्षों के पत्तों के समान, अनेक प्रकार की (श्रू चलाना मुसकराना आदि ) चेष्टाएँ होने लगीं। मानो वे चेष्टाएँ इन्दुमती के पास उनके प्रेम को पहुँचाने वाली सर्वप्रथम दूतियाँ थीं ।। १२ ।।
कश्चित्कराभ्यामुपगूढनालमालोलपत्राभितद्विरेफम् ।
रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ॥१३॥ संजी० – कश्चिदिति । कश्चिद्राजा कराभ्यां पाणिभ्यामुपगूढवालं गृहीतनालम् । आलोलैश्चञ्चलैः पत्रैरभिहतास्ताडिता द्विरेफा भ्रमरा येन ततथोक्तम् । रजोभिः परागैरन्त: परिवेषं मण्डलं बध्नातीत्यन्त: परिवेषबन्धि | लीलारविन्दं भ्रमथाञ्चकार । करस्य लीलारविन्दवत्त्वयाहं भ्रमयितव्य इति नृपाभिप्रायः । हस्तपूर्णकोऽयमपलक्षणक इतीन्दुमत्यभिप्राय: ॥ १३ ॥