________________
रघुवंश महाकाव्ये
C
"
अन्वयः - अथ, अञ्चिताक्षिपक्ष्मा, शास्त्रदृष्टं दिवसमुखोचितं विधिम्, अवसाय्य, कुशलविरचितानुकूलवेषः “सन् ” स्वयंवरस्थं, क्षितिपसमाजम्, अगात् । वाच्य० – अञ्चिताक्षिपक्ष्मणा कुशलविरचितानुकूलवेषेण 'सता' स्वयंवर - स्थः चितिपसमाजः अगामि ।
-
૪
"
व्याख्या -अथ = उत्थानानन्तरम् | अञ्चितानि=चारूणि=सुन्दराणीत्यर्थः, अक्ष्णां= नेत्राणां, पक्ष्माणि = लोमानि यस्य सः अञ्चिताक्षिपश्मा ! शास्त्रे = आगमे दृष्टं ज्ञातमिति शास्त्रदृष्टम् । दिवसस्य = दिनस्य, मुखम् = आननम्, आरम्भ इत्यर्थः, इति दिवसमुखम् दिवसमुखे उचितं = योग्यं कर्तव्यमिति दिवस - मुखोचितम् । विधिम् अनुष्ठानम्, अवसाय्य = निर्वर्त्य कुशलैः = प्रसाधन दक्षैः, विरचित:= सम्पादितः, अनुकूलः = स्वयंवरयोग्यः वेषः = नेपथ्य यस्य सः कुशलविरचितानुकूलवेषः “सन्" । स्वयंवरे = स्वतः पाणिग्रहणे तिष्ठतीति स्वयंवरस्थस्तं स्वयंवरस्थम् । क्षितिं=पृथिवीं, पान्ति = रक्षन्तीति क्षितिपास्तेषां समाजः = समूह इतिक्षितिपसमाजस्तं क्षितिपसमाजम् । अगात् = अव्रजत् ।
समा० - अञ्चितानि अक्ष्णां पक्ष्माणि यस्य सः अञ्चिताक्षिपक्ष्मा । शास्त्रे दृष्टः शास्त्रदृष्टः, तं शास्त्रदृष्टम् । दिवसस्य मुखं दिवसमुखं तत्र उचितः, तं दिवसमुखोचितम् । कुशलैः विरचितः अनुकूलः वेषो यस्य सः कुशलविर - चितानुकूलवेषः स्वयंवरे तिष्ठतीति स्वयंवरस्थस्तं स्वयंवरस्थम् । क्षितिं पान्तीति क्षितिपास्तेषां समाजः तं क्षितिपसमाजम् ।
अभि० -- तल्पत्यागानन्तरं सुन्दरनेत्र लोमवान्, अजः शास्त्रोदितं प्रातः कृत्यं सन्ध्यावन्दनादिकं विधाय प्रसाधन कुशलैः सम्पादितसुवेषः सन् स्वयंवरस्थराजसमूहमगमत् ।
हिन्दी - इस प्रकार शय्या छोड़ने के पश्चात् सुन्दर पलकोंवाले अज प्रातः काल की सम्पूर्ण सन्ध्यावन्दनादि क्रियाएं समाप्त करके, नेपथ्य रचना के विशेषज्ञों के द्वारा विरचित स्वयंवर के योग्य वेषभूषा से सजधजकर स्वयंवर में बैठे राजाओं के समाज में चले गये ॥ ७६ ॥
इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्येऽजस्वयंवराभिगमनो नाम पञ्चमः सर्गः सम्पूर्णः ॥
"