________________
पञ्चमः सर्गः
व्याख्या- इति इत्यं पूर्वोक्तप्रकारेण, विरचिता=प्रणीता, वाक-स्तुतिवचनं यैस्ते, तैः विरचितवाग्भिः । वन्दिनांस्तुतिपाठकानां, पुत्राः सुतास्तैः वन्दिपुत्रैः वैतालिकैरित्यर्थः । सदितत्क्षणमेव । विगता=नष्टा, त्यक्तेत्यर्थः, निद्रा स्वापो यस्य स विगतनिद्रः। कुमारः युवराजोऽजः तल्प शय्याम् । उज्झाञ्चकार-तत्याज विससर्ज त्यक्तवानित्यर्थः । “कथमिव" मदेन हर्षेण, पटु-मधुरमिति मदप? 'हर्षेऽप्यामोदवन्मदः' इत्यमरः । यथा स्यात्तथा निनदद्भिः कूजद्भिः हंसानां राजानः इति राजहंसास्तैः राजहंसः कलहंसः । बोधितः-उत्थापितः शयनादित्यर्थः। सुप्रतीकः-सुप्रतीकनामा। सुराणां देवानां, गजः हस्ती इति सुरगजः ईशान दिग्गज इत्यर्थः । गंगाया इदंगांग-गङ्गासंबन्धि, सिकताप्रचुर सैकत पुलिनम्, इव यथा।
समा०—विरचिता वाक् यैस्ते विरचितवाचस्तैः विरचितवाग्भिः । कन्दिनां पुत्राः वन्दिपुत्रास्तैः वन्दिपुत्रैः । विगता निद्रा यस्य स विगतनिद्रः। हंसानां राजानः राजहंसास्तैः राजहंसः । सुराणां गजः सुरगजः ।
अभि०-मधुरं कूजद्भिः कलहंसैः, बोधितः ईशानदिग्गजः सुप्रतीकः यथा गङ्गायाः सैकतं त्यजति, तथैव पूर्वोक्तं स्तुतिपाठं पठद्भिः वैतालिकैः प्रबोधितोऽजस्तत्क्षणमेव तल्पं त्यक्तवान् ।
हिन्दी-इस प्रकार सुन्दर बचनों की रचना करनेवाले चारणों की वाणी से जगे हुए कुमार अज ने, तत्काल ही पलंग को वैसे ही छोड़ दिया, जैसे मधुर शब्द करनेवाले हंसों के निनाद से जगा ईशानकोण का पहरेदार देवगज सुप्रतीक आकाशगङ्गा के रेतीले तट को छोड़ देता है ॥ ७५ ॥
अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमश्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेषः क्षितिपसमाजमगात्स्वयंवरस्थम् ॥ ७६ ॥
सञ्जीविनी-अथोत्थानानन्तरमञ्चितानि चारूण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य स्यतेय॑न्ताल्ल्यप् । कुशलैः प्रसाधनदौर्विरचितोऽनुकूल: स्वयंवरोचितो वेषो नेपथ्यं यस्य स तथोक्तः सन्स्वयंवरस्थं क्षितिपसमाजं राजसमूहमगादगमत् "इणो गा लुङि' इति गादेशः। पुष्पिताग्रावृत्तमेतत् । तल्लक्षणम्-'अयुजि नगरे. फतो यकारो युजि च नजौ जरगाश्च पुष्पितामा' इति ॥ ७६ ॥