________________
पंचमः सर्गः
५३ विहस्तयोधः, तं रामापरित्राणविहस्तयोधम् । सेनायाः निवेशः इति सेनानिवेशः, तम् सेनानिवेशम् ।
अभि०-स सेनानिवेशस्तस्मिन्गजे आगतमात्र एव व्याकुलो जातः । तथाहि बन्धनानि भङ्क्त्वा वाहना द्रुद्रुवुः, भग्नाक्षा रथाः पेतुः, योधाश्च स्त्रीणां संरक्षणे व्याकुला बभूवुः।
हिन्दी-अज की सेना का वह समस्त शिविर उस हाथी के आते ही व्याकुल हो गया, क्योंकि हाथी घोड़े आदि बन्धन तोड़कर भागने लगे, धुरा टूटने से रथ गिरने लगे तथा योधा लोग स्त्रियों की रक्षा में तत्पर हो गये ॥४६॥
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः। निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशाङ्गः ॥५०॥ सञ्जीविनी-नृपते राज्ञो वन्यः कर्यवध्य इति श्रुतवाञ्छास्त्राज्शातवान्कुमार आपतन्तमभिधावन्तं तं गजें निवर्तयिष्यन्न तु प्रेहरिष्यन् अत एव नात्यायतमनति. दीर्घ यथा स्यात्, नार्थस्य नशब्दस्य सुप्सुपेति समासः, कृष्टशाङ्गः ईषदाकृष्टचापः सन्विशिखेन बाणेन कुम्भे जघान । अत्र चातुषः-लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात् । इयं हि श्रीर्ये करिणः' इति । अत एव 'युद्धादन्यत्र' इति द्योतनार्थमेव वन्यग्रहणं कृतम् ॥५०॥
अन्वयः-नृपतेः, वन्यः, करी, अवध्यः, इति, श्रुतवान् , कुमारः, आपतन्तं, तम् ,निवर्तयिष्यन् ,'अत एव' नात्यायतकृष्टशाण, 'सन्' विशिखेन, कुम्भे जवान।
वाच्य०-इति श्रुतवता तं निवर्तयिष्यता नात्यायतकृष्टशाङ्गेण 'सता' जघ्ने ।
व्याख्या-नृणां मनुष्याणां पतिः स्वामी नृपतिः राजा, तस्य नृपरः । वने अरण्ये भवः वन्यः। करः-शुण्डादण्डः अल्प अस्ति इति करी-गजः । हन्तुम् = मारयितुम् योग्यः वध्यः, न=नहि वध्यः अवध्यः। इति इत्थम् । श्रुतवान् ज्ञात. वान् । कुमारः=युवराजः अजः। आ-समन्तात्, पततिगच्छति इति आपतन् , तम् आपन्तम् आयान्तमित्यर्थः । तम् गजम् । निवर्तयिष्यति=निराकरिष्यति इति निवर्तयिष्यन् । 'अत एव' शृङ्गस्य=विषाणस्य, विकारः शाङ्गम् धनुः । न-नहि, अत्यायतम् अतिदीर्घम् इति नात्यायतम् , नात्यायतं च तत् कृष्टम् आकृष्टम् इति नात्यायतकृष्टम् तत च शाङ्गम् येन सः, नात्यायतकृष्टशार्ङ्गः 'सन्' विशिखेनबाणेन । कुम्भे-गण्डस्थले । जघान हतवान् ।