________________
पञ्चमः सर्गः
५१ तदीयं मदमाघ्राय सेनागजेन्द्राः विलद्धितः तिरस्कृत आधोरणानां हस्तिपकानां तीनो महान्यानो यैस्ते तथोक्ताः सन्तः, 'आधोरणा हस्तपका हस्त्यारोहा निषादिनः' इत्यमरः । विमुखाः पराङ्मुखाः बभूवुः ।। ४८॥
अन्वयः-सप्तच्छदक्षीरकटप्रवाहम् , 'अत एव' असहम् , तदीयम् , मदम्, आघ्राय, सेनागजेन्द्राः, विलाश्ताधोरणतीव्रयत्नाः, 'सन्तः' विमुखाः, बभूवुः ।
वाच्य०-सेनागजेन्द्रः विलचिताधोरणतीव्रयत्नैः 'सद्भिः' विमुखेः बभूवे ।
व्याख्या-सप्त सप्तसंख्यकाः छदाम्पत्राणि यस्य सः ससच्छदः, सप्तपर्णवृत्तः इत्यर्थः, सप्तच्छदस्य दीरम् दुग्धम् सप्तच्छदक्षीरम् , सप्तच्छदक्षीरवत् कटा सुरभिः, प्रवाह :-प्रसारः यस्य सः सप्त दक्षीरकटप्रवाहः, तम् सप्तच्छदक्षीरकटुप्रवाहम् । 'अत एव' सोदुम् सहनं कर्तुम् शक्यः सह्यः , न सह्यः असह्यः, तम् । तस्य-गजस्य अयम् तदीयः, तम् तदीयम् । मदम्दानम् । आघ्राय घावा । गजानाम्-हस्तिनाम् , इन्द्राः स्वामिनः गजेन्द्राः, सेनायाः-चग्वाः गजेन्द्राः सेनागजेन्द्राः। तीवः अधिकश्वासौ, यत्नः उपायः इति तीव्रयत्नः, आघोरणानाम् = हस्तिपकानाम् तीव्रयत्नः इति आधोरणतीव्रयत्नः, विलचितः तिरस्कृतः आधोरणतीव्रयत्नः यस्ते विलचिताधोरणतीव्रयत्नाः, 'सन्तः' । विपरीलम विरुद्धम् मुखम् येषां ते विमुखाः पराङ्मुखा इत्यर्थः । बभूवुः आसन् ।
समा०-सप्त छदा यस्य सः सप्तच्छदः, सप्तच्छदस्य क्षीरं सप्तच्छदक्षीरम् , सप्तच्छदक्षीरवस्कटुःप्रवाहः यस्य सः सप्तच्छदक्षीरकट्टप्रवाहः, तं सप्तच्छदक्षीरकटुप्रवाहम् । सोढुं शक्यः सह्यः, न सह्यः असह्यः तम् । गजानाम् इन्द्राः गजेन्द्राः सेनायाः गजेन्द्राः सेनागजेन्द्राः। तपश्चासौ यत्नः तीव्रयत्नः, आधोरणानां तीव्रयत्नः इति आधोरणतीव्रयलः, विलचितः आधोरणतीव्रयत्नः यैस्ते विलचिताघोरणतीव्रयत्नाः।
अभि०-अजसेनागजेन्द्रैर्यदा सप्तपर्णदुग्धसमस्तस्य गजस्य मदगन्ध आघ्रायि तदैव तमसहमानास्ते तथा दुद्रुवुर्यथा तदाधोरणानामुपाया अपि तानिरोढुं न शेकुः।
हिन्दी-अज की सेना के बड़े-बड़े हाथी भी सप्तपर्ण के समान गन्धवाले उस हाथी के मद को सूंघकर उसे सहन न करते हुए भागने लगे, यहाँ तक कि हाथीवानों के उग्र उपाय भी उन्हें न रोक सके ॥४८॥